SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ एवं विचिन्तयन्नेष तैरारक्षकपूरुषैः । तत्रोद्धो वटे नीत्वाऽपराधरहितोऽन्यहो! ॥३५७ ॥ अन्यदा रममाणानां गोपानां दैवयोगतः । उत्प्लुत्योन्नतिकाऽविक्षत मुखे तस्याऽपि पूर्ववत् ॥ ३५८ ।। तत् सूरिवदनाच्छ्रुत्वाऽमरदत्तो महीपतिः । स्मारं स्मारं गुणग्रामं तस्यैवं व्यलपन्मुहुः ॥३५९ ॥ हा मित्र ! निर्मलस्वान्त ! हा परोपकृतौरत! हा प्रशस्यगुणवात! हा भ्रातःवगतोऽसि हा ! ॥३६० ॥ देवी च विललापैवं हा देवर ! सखिप्रिय ! | सुविचार! गुणाधार ! निर्विकार ! कतिष्ठसि ॥ ३६१॥ यदाऽहं भवताऽऽनीता'तदाऽनेके विनिर्मिताः । उपायाः स्वविपत्तौ ते क्वगताहा महामते । ॥ ३६२ ॥ उवाच सप्रियं भूपं विलपन्तमदो गुरुः । शोकं मा कुरु राजेन्द्र ! भवभाव विभावय ॥३६३ ॥ न चतुर्गतिकेऽप्यस्मिन् संसारे परमार्थतः । सौख्यं शरीरिणामस्ति किन्तु दुःखं निरन्तरम् ॥ ३६४ ॥ स कोऽपि नास्ति संसारे मृत्युनायो न पीडितः। सिद्धमार्गममुं ज्ञात्वाकः शोकं कुरुते सुधीः ॥ ३६५ ।। शोकाऽऽवेशं परित्यज्य राजन ! धर्मोद्यमं कुरु । येनेदृशानां दुःखानां भाजनं नोपजायसे ॥ ३६६ ॥ राज्ञाप्रोचे करिष्यामि धर्म मे कथ्यतां परम् । मित्रानन्दस्य जीवोऽसौ कुत्रोत्पन्नो मुनीश्वर!॥ ३६७॥ सरिः प्रोवाच ते देव्याः सोऽस्याः कुक्षौ समागतः । सुतत्वेन यतस्तेन भावना भाविता तदा ॥ ३६८॥ जातः कमलगुप्ताख्यस्तव पुत्रः सुविक्रमः । पूर्व कुमारतां प्राप्य क्रमाद्राजा भविष्यति ॥३६९ ॥ पुनः पप्रच्छ भूपालः कथं तस्य महात्मनः । जाता निरागसोऽप्येवं तस्करस्येव पञ्चता ॥३७० ॥ n tondarasinatamdantation &*XXXXXXXRRRRRRRRRRRR A
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy