________________
श्री जैनहितोपदेश भाग ३. जो.
॥ २४ ॥ शास्त्राऽष्टकम् ॥
चर्मचक्षुर्भुतः सर्वे, देवाश्वावधिचक्षुषः || - सर्वतश्चक्षुषः सिद्धाः साधवः शास्त्रचक्षुषः ॥ १ ॥ पुरस्थितानिवोर्ध्वाधः स्तिर्यग्लोक विवर्तिनः ॥ सर्वान् भावानपेक्षन्ते ज्ञानिनः शास्त्रचक्षुषा ॥ २ ॥ शासनात् त्राणशक्तेश्व, बुधैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ॥ ३ ॥ शास्त्रे पुरस्कृते तस्माद, वीतरागः पुरस्कृतः ॥ पुरस्कृते पुनस्तस्मिन् नियमात् सर्वसिद्धयः ॥ ४ ॥ अदृष्टाऽर्थेऽनुधावतः, शास्त्र दीपं विना जडाः || प्राप्नुवन्तिपरं खेदं प्रस्खलन्तः पदे पदे ।। ५ ।। शुद्धोंच्छाद्यपि शास्त्राज्ञा, निरपेक्षस्य नो हितं ॥ भौतहतुर्यथा तस्य, पदस्पर्श निवारणं ॥ ६ ॥ अज्ञानाहि महामंत्रं, स्वाच्छंद्यज्वर लंघनं ॥ धर्मारामसुधाकुल्यां, शास्त्रमाहुर्महर्षयः ॥ ७ ॥
मे
९४
,