________________
तत्वार्थविवरणहार्यदीपिका । . 'प्रकृतितद्विकारोपधानविलयसमुद्भुतपुरुषस्वरूपावस्थानरूपा आत्यन्तिकचित्तसन्ततिविच्छेद लक्षणा आत्महानिलक्षणा नित्यनिरतिशयसुखाभिव्यक्तिलक्षणाऽविद्यानिवृत्युपलब्धीवज्ञानसुखात्मकब्रह्मलक्षणा वा तीर्थास्तरीयाऽभिमता प्रतिपक्षयुक्तिविक्षोमितात्मस्वरूपाऽऽमलामाद् विभ्यती परमपुरुषार्थतामनासादयन्ती च मा भवतु प्रेक्षावद्भिभुमुक्षुभिविषणीयसाधननिकुरबा, परन्तु अनेकान्तभावनाजनिततत्वज्ञानोपहितरिति पाचिन्मतमाह-दु:खध्वंसस्तोमरूपेति । अत्र स्तोमयदोपादानानकदुःखध्वंसकाले 'मुक्तिव्यपदेशापत्तिः, तत्तदात्मवत्तियावद्दुःखध्वंससंवलनकाल ५५ तथाऽभ्युपगमादिति भावः ।
चित्तमेव हि संसारो, रागादिक्लेशवासितम् ।
तदेव तैर्विनिमु, भवान्त इति कथ्यते ॥१॥ - इति वचनस्वारस्याद्रागद्वेषविनिर्मुक्ता चित्तसन्ततिर्मुक्तिरित्यभ्युपगन्तृणां बौद्धानां मतमाह-अनुपपलवचित्तसन्ततिरूपेति । मतान्तर माह-वातन्त्र्यरूपेति । यथा पुकरपलाशमापो न लिष्यन्ति तथा पुरुषमप्यपरिणामित्वान्मुख्यवृत्त्या न कर्म श्लिष्यति, अत एव न विश्लिष्यतीति तस्य बन्धमोक्षौ न भवतः, मूलकारणीभूतायाः प्रकृतेस्तद्विकारस्य च महत्तत्वस्थाऽऽत्मना सह सम्बन्धात्तयोर्मेदारहे कर्तृत्वाधारोपादात्मनस्संसारः, तद्वियोगादग्रहे पुरुषस्य चैतन्यात्मनाचस्यानं मोक्ष इन्युपर्यत इति साङ्ख्यमतोपदर्शनायाऽऽह-प्रकृतितद्विकारोपधानविलयसमुद्भूतपुरुषस्वरूपावस्थानरूपति । न द्रव्यस्य न वा पर्यायस्य कस्यचिदात्मस्थानाभिषिक्तस्य मुक्तावस्थानमिति सफलशून्यवादिमतमाह आत्यतिकचित्तेति । चार्वाकसम्मतमुक्तिमाह आत्महानिलक्षणेति । तौतातिक( कुमारिलम)मतमाह नित्यनिरतिशयेति । वेदान्तिमतमाह-अविद्येति । ननूक्ततत्तद्वाभ्युपगतातलक्षणा मुक्तिः किं प्रमाणभूता किं वा नेत्याशङ्कायामाह-प्रतिपक्षयुक्तीति । उक्ततत्सर्वमतनिराकरणयुक्तयो विस्तारभयानेह प्रतन्यन्ते, विशेषार्थिना न्यायालोकादिग्रन्थादवसेयाः । अवच्छेदकतासम्बन्धेनाऽऽत्मविशेषगुणम्प्रति तादात्म्यसम्बन्धेन शरीरस्य कारणीभूतसाऽभावेन मुक्तौ न तदुत्पत्तिरित्यशेपविशेषगुणोच्छेदलक्षणा मुक्तिनैयायिकैरभ्युपगता तथा जैनर प्युरीक्रियते किंवा यथेत्याशङ्कानिवृत्यर्थमाह-तजन्यपरमानन्दरूपा वेति । यस्स्वाभाविक गुणः परायत्तावृत्तस्वभावः स परस्याऽऽन्छादकस्य समूलक्षये सति सर्वथैवाऽऽविर्भवति, यथा सूर्यस्य प्रकाशगुणः, परमानन्दगुणोऽपि तथेति तदावारकस्य कर्मणसमूलकापं कपणे मुक्तो सोऽपण्डरूपतया प्रादुर्भवतीति तदास्मैव मुक्तिः, सोपाधिकानन्दगुणवनिरुपाधिकपरमानन्दगुणोऽपि न नैमित्तिको, येन निमित्तामा * नैमित्तिकस्यापि तस्याऽभावो मुक्तौ स्यात् , किन्तु निरावरणात्ममात्रजन्य एवेति तजन्यस्य
तस्य नाशकाभावान्न मुक्तावभाव इति भावः । उक्तञ्च पाचकचक्रवर्तिना." देहमनोवृत्तिभ्यां, भवतः शारीरमानसे दुःखे । तदभावात्तदभावे, सिद्ध सिद्धस्य सिद्धिसुखम् ॥ १॥” इति । सा मुक्ति केन कारणेन साध्येलत आह-अनेकान्त भावनेत्यादि। मुक्तेरस्वरूपविशेषण