________________
तत्त्वार्थविवार्थदीपिका इत्यादिसूत्रयतौलयन -प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासछलजातिनिहस्थानानां तत्वज्ञानानिःश्रेयसाधिगम इति सूत्रयताऽझपादन “अथातो ब्रह्मजिज्ञासा" इति सूत्रयता वेदव्यासेन · दुःखत्रयाभिधाता-जिज्ञासा तदपधातके हेतौ । दृष्टे सापार्था चे-नैका तात्यततोऽभावात् ॥ १॥ ' इति सूत्रयतेश्वरकृष्णेन, अन्येन च अन्यादौ मुक्तिरेव परमप्रयोजनतयाऽऽदृता । श्रतिरपि परैः प्रमाणभूमिषिक्ता-“ आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य " " आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः " " न स पुनरावर्तते
- " यतोऽभ्युदयनिःश्रेयससिद्विः स धर्म इति ।” अभ्युदयस्तत्वज्ञान, निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः, तदुभयं यतः स धर्मः । अभ्युदयद्वारकं निःश्रेयसमिति मध्यमपदलोपिसमास:, पञ्चमीतत्पुरुषो वा, यद्वाऽभ्युदयः स्वर्गो निःश्रेयसं मोक्षस्तयोः सिद्धिरुत्पत्तिर्यत॥ धर्मः, अन धर्मस्थ स्वर्गसाधनता साक्षादेवाऽपवर्गसाधनता तु तत्वज्ञानद्वारेति विशेष इत्यर्थः। औल्क्येनेति वैशेषिकदर्शनप्रणेचा कणभक्षापरनामकणादमुनिनेत्यर्थः । दुःख–याभिघातदित्यादि-दुःखानामाध्यात्मिकाधिभौतिकाधिदैविकाख्यानामन्तःकरणपतिनां रजःपरिणामानां त्रयेण चेतनाशक्तः प्रतिकूलवेदनीयतयाभिसम्बन्धोऽभिवातस्तस्मात्तया, अत्र हेत्वर्थे पञ्चभीति तदर्थस्य दुःखत्रयाभिधातनिष्ठहेतुत्वस्य स्वनिरूपितजन्यतासम्बन्धेन जिज्ञासायामन्ययः। कस्मिन् विषये जिज्ञासेत्याशङ्कायामाहे-तद५घातक इति । तस्य दुःखत्रयस्याऽपयातको निवर्तकस्तस्मिन्नित्यर्थः, अत्र शङ्कते-दृष्टे साऽपार्था चेदिति। दुःखत्रयोच्छेदके दुष्टोपाये शक्य सति अनेकजन्मास्यासपरम्परायाससाध्यतयाऽतिदुष्करेऽदृष्टोपाये सा जिज्ञासापार्था निरर्थिकेति चेदित्यर्थः, तनिराकरोति नेति । निवेधे हेतुमाह-एकान्तेति । एकान्तो दुःखनिवृत्तरश्यम्भावः । अत्यन्तो निवृत्तस्य दुःखस्य पुनरनुत्पादो, दृष्टोपाये सति तयोरेकान्तात्यन्तयोरभाव एकान्तात्यन्ततोऽभावस्तस्मात्तथेति । एतदुक्तं भवति यथाविधिरसायनादिकामिनीमन्त्राधुपयोगेऽपि दुःखत्रयस्य निवृत्तेदनादनकान्तिकत्वम्, निवृत्तस्यापि तस्य पुनरुत्पत्तिदर्शनाद नामन्तिफत्वमिति तोनापार्था जिज्ञासेति । अनया कारिकयाऽत्यन्तदुःखनिवृत्तिरेव मोक्षस्तदर्थं तद्धती 'यतितव्यमिति सूचितमिति भावः। आचार्यवान् पुरुषो वेदेत्यादि।तस्य उत्पन्नतत्वज्ञानस्थ, चिरं विलय कैवल्यप्रागभाव इति यावत्, न विमोक्ष्य इति-न विमोक्ष्यते उपात्तकमराशेः संकाशात्फलोपभोगेनेति शेषः । अथेति-प्रा०यकर्मनाशान रमित्यर्थः। सम्पत्स्ये सम्पत्स्यते कैवल्येन मुक्तो भवतीत्यर्थः, छन्दसि कालपुरुषादीनामनियमाद् व्यत्यय इति ध्येयम् । श्रोतव्यः शास्त्राधीनश्रवणपदवाच्यशादयोधरूपात्मज्ञान विषयः । मन्त०५ः शास्त्रादिबोधितवैधलिङ्गका स्मपक्षकेतरभेदोनुमितेत्मिा देहादिभिन्नः, अनादित्वात् यनैवं तनैवं, इत्याकारिकायां विषयः, निदिध्यासितव्यः श्रवणादिमूलकसंस्काराधीनतत्समानविषयकध्यानाभ्यासविषयः । साक्षाकर्तव्यः-आत्मतत्वसाक्षात्कार विषयः । न स पुनरावर्ततं इति-न सं पुनशरीरी भवतीत्यर्थः, नं पुनदेहन्द्रियोदिसम्बन्धादात्मनो भोग इति भावः।
. ..