________________
वार्थ विवरणमूढार्थदीपिका । पञ्चत्रिंशत्वमसू०टी० : ३९५ : विशुद्धा-अव्याहतोत्पत्तयोऽन्याहतयाथार्थ्याश्च । अंशग्राहित्वेऽपि पारमेश्वरप्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुस्पर्शन लौकिकविषयान् वैशेषिकादिशास्त्राण्यऽतीताः, तज्ञानार्थ-समयनयसामग्रीसंपावसप्तमायात्मकमहावाक्यार्थपरिज्ञानार्थम् , अधिगम्या अभ्यसनीयाः । उत्सर्गतो हि पारमेश्वरप्रवचनपरिणतबुद्धीना स्याद्वादाभिधानमेवोचितं परिपूर्णवस्तुप्रतिपादकत्वात्, तद्व्युत्पत्त्यर्थितया तु शिष्याणामंशमाहिषु, नयवादेष्वप्यपवादतः प्रवृतिरुचितव । " अशुद्ध वर्मनि स्थित्वा, ततः शुद्धं समीहत " इत्यादि. न्यायादिति भावः । तदिदमाह-सम्मतौ महावादी-" सीसमईविस्फारण-भेतत्थो यं कओ समुल्लायो । इहरा कहामुहं चेव, पत्थि एयं(व) ससमयंमि ॥ १॥” इति ॥
सत्येन तज्ज्ञानविशिष्टतया नैगमनयजन्याक्षणिकत्वसामान्यादिप्रकारकज्ञानरूपयावज्ञानस्यजुमत्रानयजन्यक्षणिकत्वविशेषादिप्रकारकज्ञानं प्रति न प्रतिवन्धकत्यमित्यत इत्यर्थः । विशुद्धा इत्यत्र हेतुं प्रदर्य तदर्थमाह अव्याहतेत्यादि । लौकिकविषयातीता 'इत्यस्यार्थमाह-अंशग्राहित्वपीति । ततनयानां प्रकारविधया तत्तदंशग्राहित्वेऽपि तदितशाप्रतिक्षेपित्वेन श्रुतप्रमाणप्रतिपनानन्तधर्मात्मकरस्त्वेकदेशग्रहणलक्षणस्पर्शनेकान्तास्मकलौकिकविषयमरूपकवैशेषिकयौद्धादिशास्त्रविषयकान्तागोचरत्वेन तान्यतीतास्तत्तन्नयवादा इत्यर्थः। तत्वज्ञानार्थमित्यस्यार्थमाह-समननयोति । अधिगम्या इत्यस्यार्थमाह-अभ्यसनीया इति, दृढसंस्कारमापना यथा स्युस्तथा सन्ततप्रवृत्या स्थैर्यभावनात्मसात् कर्तव्याइति भावः। यहसिद्धान्तोक्तानेकान्ततत्याभ्यासजन्यतद्विषयकपरिपुष्टबुद्धीनां सप्तमङ्गयात्मकप्रमाणवाक्य. स्यैव सप्तविधजिज्ञासानिवर्तकसप्तधर्मप्रकारकैकवर्मिविशेष्यकाखण्डवोधजनतापर्याप्तिमत्वात् उत्सर्गतस्याद्वादरूपप्रमाणवाक्याभिधानमेवोचितं तर्हि ततनयवादविषयाप्रवृत्तिदुर्घटव, तत्तनयवाक्यानां मिथो विरोधितया विरुद्धनयवाक्यप्रतिपादनप्रवृत्तर नुचितत्वादित्याशङ्कायामाह तयुत्पत्त्यथितयेति-स्थावादवाक्यतजन्याशेषांशविशिष्टपरिपूर्णवस्तुविषयकनिराकाशीद. वोधात्मकज्ञानविशेष कार्यकारणभावविज्ञानरूपा या व्युत्पतिस्तदर्थितयेत्यर्थः । अस्य च शिष्याणामित्यनेनान्वयः । अंशग्राहिषु नयवादेष्वप्यपवादतः प्रवृत्तिरुचितैवेति-न हि प्रत्येकतत्तदशज्ञानाभावे निखिलांशविशिष्टार्थज्ञानं भावतुमर्हतीत्यशेषांशविशिष्टार्थबोधे एकैकत. पदंशविषयकानयज्ञानानामपि हेतुत्वात्तजनके वंशवाहिषु नयवादेष्वपि प्रवृत्तिरुचितैवेत्यर्थः। ननु तदितरशिनिरपेक्षतत्तदंशविषयकनयवादानां मिथोविरोधिनां तद्विषयासत्यत्वेनायथार्थज्ञानजनकत्वाचवतो मिथ्यात्वादशुद्धत्वेन तदुक्तयुक्त्याश्रयणं नोचितमित्याशङ्कायामाह-अशुद्ध वर्त्मनि स्थित्वेति-तथा चोक्तन्यायेन शिष्यमतिविस्फारणार्थ तदुक्तयुक्त्याश्रयणमपि न्याच्यम् । परमार्थतस्त्वेकान्तनयभाषाप्रयोग एव नास्ति, कुतस्तदुक्तयुक्त्याश्रयणमिति बोध्यम् । उक्तार्थे स-मतिकृतीयकाण्डसत्कपञ्चविंशतितमगाथासंवादमाह-"सीसमईविष्फारणे ति"। अस्था अयमः शिव्यमतिविस्फारणमात्रार्थोऽयं विनीतविनेयबुद्धिविकाशनमात्रफलकोऽयं, अति