________________
: ३९४ : स्वार्थविवरणदार्थदीपिका । पंचविसमस्० टी० विशिष्टचारित्रार्थक्रियाकारित्वेन प्राधान्यमास्कन्दतीति तदङ्गयोत्तयोभतिज्ञानस्येव न गणना ॥३॥ मिथ्येति-मिथ्यादृष्टिमिथ्यादर्शनं चाशानं च ते द्वे, अयं शब्दो न श्रयते । किं कारणम् ? । अस्य शब्दनयस्य मते न कश्चिदशोऽज्ञानवानस्ति । कुतः ? । ज्ञवाभाव्यात-सर्वप्राणिनां ज्ञातृस्वरूपत्वात्, अत एवं चास्य न कश्चिन्मिथ्यादृष्टिरप्यस्ति । नन्वेवमज्ञानमिथ्यादर्शननिवृत्यर्था प्रवृत्तिः कथमुपपद्यते, तस्यां स्वत: 'सिद्धत्वज्ञाने इच्छाया एवासंभवादिति चेत्, मैवम्, तत्र स्वेटसाधनस्वस्वकृतिसाध्यत्वासंसर्गाग्रहात्तदुपपत्तेः, यत्रैव परस्य विशिष्टज्ञानं कारणं तत्रैव मम 'तद्धतोः' इत्यादिन्यायेन विशेषणासंसर्गाग्रह एवेति किमनुपपन्नम् ॥१॥ इतीति-इसनेन प्रकारेण, नवादा-नगमादिविचास्त्रः, चित्रा बहुप्रकाराः, शेयवैचित्र्यात् । क्यचित्-स्वरुचितसामान्याचशे विशेषादिग्राहिनयविचारावतारे, विरुद्धा इव-प्रतिवध्यमानोत्पत्तिका इव, अथ च सम्यगालोचनायां नयान्तरजन्यवाघज्ञानस्य नयान्तरजन्यज्ञानेऽप्रतिबन्धकत्वात्, गणना, श्रुताङ्गत्वादिति भावः। तदेव-श्रुतज्ञानमेव । तदङ्गयोस्त योरिति-प्रधानकारणीभूत श्रुतस्याङ्गयोगौणतया कारणीभूतयोवधिमन:पर्यायज्ञानयोरित्यर्थः ॥३॥ चतुर्थकारिकार्थमाहमिथ्येतीति आशङ्कते-नन्विति, एवं-अज्ञानमिथ्यादर्शनाभावे सति। प्रवृत्तेरनुपपत्तौ हेतुभाह-तस्यां स्वतः सिद्धत्वज्ञाने इच्छाया एवास भवादिति-अज्ञानमिथ्यादर्शननिवृत्तौ स्वतः सिद्धत्वज्ञान सा स्वत एव सिद्धा, अर्थात् ज्ञस्वाभाल्यादेवोक्तनिवृत्ति स्वतोऽस्तीति ज्ञाने मम सा भवयितीच्छाया एवास भवादित्यर्थः । उत्तरयति मैमिति । तत्र अज्ञानमिथ्यादर्शनानिवृत्तौ । तदुपपवेरिति-प्रवृत्युपपत्तरित्यर्थः । नैयायिक प्रवृति प्रतीष्टसाधनत्यप्रकार केदत्वावच्छिन्नविशेष्यकमिदामिष्टसाधनमित्याकारक एवं कृतिसाध्यापप्रकार केदविशेष्यकमिदं कृतिसाध्यमित्याकारकं विशिष्टज्ञानं कारणमभ्युपगतं, तचेष्टसाधनत्वरूपस्य कृतिसाध्यत्वरूपस्य च विशेषणय योऽसंसर्गो विशेष्येभावस्तस्य ग्रहे सति न भवितुमर्हति, तद्वत्ताबुद्धि प्रति तदभावज्ञानस्य प्रतिवन्धकत्वादिति तदभाव: प्रतिबन्धकाभावविधया कारणत्वनाम्युपगन्तव्य एवेति तेनैवास्माकं मंतेऽपि प्रवृत्तिसिद्धौ किमुक्तविशिष्टज्ञानस्य कारणत्वकल्पनेनेसाह यत्रैव परस्थेत्यादि ॥४॥ पञ्चमकारिका विवृणोति-इतीतीति । शेयवैचित्र्यादिति-नैगमादिनयमन्तव्यतत्तत्प्रकारवैचित्र्यादित्यर्थः। क्वचिदित्यस्यार्थमाह, स्वरुचितेत्यादि । विरुद्धा ३५ इत्यस्यार्थमाह प्रतिबध्यमानोत्पत्तिका इति । सम्यगालोचनाथाम्- परमार्थदृष्टया यथार्थवस्तुत विचारणायाम् । नयान्तरजन्यबाधज्ञानस्य नयान्तरजन्यज्ञानेऽप्रतिवन्धकत्वादिति-तत्तायुद्धिं प्रति तदभाववत्तानिश्चयरूपबाधिज्ञानस्य प्रतिबन्धकरवे मूलावच्छेदेन वृक्षे कपिसंयोगाभावज्ञाने सति शाखापच्छेदेन वृक्षे कपिसंयोगवलज्ञानमेव न स्यात्, भवति च, तस्मादच्याप्यवृतित्वज्ञानाभावविशिष्टमेवोक्तमाधज्ञान प्रतिवन्धकं वाच्यम्, तथा च प्रकृते अक्षणिकत्वसामान्याधम्युपगन्तनविषया
સામાન્ય દ્વિધર્મસ્ય ક્ષવિશે વાઘમ્યુપન્નયક્ષ ત્વવિધર્મસ્થ चोभयस्य मिनापेक्षयकस्मिन् वस्तुनि वृवित्वेनाव्याप्यतित्वमिति तज्ज्ञानस्योत्तजकस्य .