________________
: ३३:: तवार्थविवरणगूढार्थदीपिका । पंचत्रिंशत्तमसू० टी० मपीत्यतस्तत्समः। उपचारो नामाऽन्यत्र सिद्धस्यार्थस्थान्यत्रारोपः, यथा कुण्डिकास्थे उदके श्रवति कुण्डिका श्रवतीति, पुरुषे च गच्छति पन्था गच्छति, गिरितृणादौ दह्यमाने गिरिदयत इत्यादौ, तत्प्रायस्तबहुलः । विस्तृतो विस्तीर्णोऽनेकेषां विशेषाणां ज्ञेयत्वादर्थो विषयो यस्य स तथा, सामान्यानभ्युपगमे सति विशेषाऽभ्युपगमादिति भावः । अत एव विशेषतोऽवह्रियतेनिराक्रियते सामान्यमनेनेति व्यवहार इति व्यवहारस्य व्युत्पत्तिर्गीयते सिद्धान्ते। तथाऽयमपीत्यतत्सम इति-तथा च विशेषानाऽऽश्रित्य लोकन्यवहारप्रधानो 'नयो व्यवहारनय इति भावः । अत एव " लोकव्यवहारोपथिकोऽयवसायविशेपो व्यवहारः" इति नयरहस्योक्तं व्यवहारलक्षणं सङ्गच्छने । नन्वयं नयो यदि सदित्युक्ते विशेषानेव घटपटादीन प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात् , तथाहि-लोके घटपटगवादयो विशेषा एव जलाहरणाच्छा. दनवनादिक्रियास्पयुज्यमाना दृश्यन्ते, न पुनरतदतिरिक्तसामान्य, यतो न हि घटमानय पटेनाच्छादय गांवधान " इत्युक्ते कश्चिद् घटत्वमानेतुं पटनाच्छादयितुं गोत्वं वधुमध्यवस्तीति जलाहरणाधुपयोगिनो घटादिविशेषानेवायमङ्गीकरोति, अर्थक्रियाकारित्वलक्षणसचोपेतत्वात् , न तूक्तत्वलक्षणरहितानि विधि पाणि घटलपटत्वादिसामान्यानि, उक्तञ्च"जं च विसेसेहिं चिय, संववहारो वि कीरए सक्छ । जम्हा तम्मतं चिय, फुडं तदत्यंतरमभावो" २२१५ । इति । नन्वेवं तर्हि निखिलघटपटादौ वटोऽयं घटोऽयं पटोऽयं पटोऽयमित्याधनुगत- । प्रतीतिरेतन्मते कथं स्थादिति चेत्, उच्यते, अस्वण्डातद्वयावृत्तितस्सोपपादनीयेति, तत्राखण्डाभावनिवेशाच नान्योन्याश्रयः, अस्तु वा शब्दानुगमादेवानुगतत्वव्यवहारः, दण्ड चक्रादिष्वनु. गतसामान्याभावेऽपि दण्डः कारणं चक्रादिरपि कारणमित्यनुगतव्यवहारवदिति । लोकव्यवहारसमत्वादेवास्य नयस्य पञ्चवर्णात्मकेऽपि भ्रमरादावुद्भूतत्वात् बहुतरत्वाद्वा कृष्णादिवर्णअकमेवाभ्युपगच्छति स नयः। एवं तर्हि भ्रा.विप्रसक्तिस्यात् पञ्चवर्णात्मके एकवर्णवोधादिति न च वाच्यम् , कृणादिपदस्योद्भूतकृष्णादिपरत्वेन विवक्षणात् , तेनैव लोकव्यवहारात, यतो न खुद्भूतकृष्णरूपं परित्यज्यान्यरूपाणीक्ष्यन्ते लोरिति व्यवहार नयोऽप्येवमेवाभ्युपगच्छति, प्रत्यक्षमात्रप्रमाणाभ्युपगमपरत्वात्, न नैश्चणिकपञ्वरूपादिकम् । उपचारप्राय इत्येतद्धकोपचारपदस्थार्थमाह उपचारो नामेत्यादिना, कुण्डिका अवतीत्यत्र कुण्डिकापदस्य कुण्डिकास्थजले लक्षणा, तीजंतु-अनिविडत्यप्रतीतिः प्रयोजनम्, यद्वा कुण्डिफापदार्थस्याद्रवत्वेन श्रवणेऽन्वयस्य तात्पर्यस्य वा अनुपपत्तिरवेति बोध्यम् । पन्या गच्छतीयत्र पयिपदस्य पथि गच्छति पुरुषसमुदाये लक्षणा, तीज तु नरन्तर्यप्रतीतिः । यता स्थिरस्थ पथिपदार्थस्य गम्धात्वर्थेऽन्वयस्य तात्पर्यस्य वाऽनुपपत्तिः । गिरिदयत इत्यत्र गिरिपदस्य गिरिस्थत पादौ लक्षणा, तीज तु भूयोदधत्वप्रतीतिः प्रयोजनम् । गिरेरदह्यमानत्वेन दहनक्रिया.याऽनुपपतिरेव वा। तत्प्राय इत्यस्यार्थमाह तबहुल इति-उपचारबाहुल्येन व्यवहारकारीति भावः । भाष्योक्तस्य विकृतार्थ इत्यस्यार्थमाह-विस्तृतो विस्तीर्ण इत्यादि।