________________
तत्वार्थविवरणगूढार्थदीपिका । पञ्चत्रिंशत्तमसू० टी०
T
1
66
• ३३७ : विदिता सत्त्वा लौकिका ये पुरुषास्तैः समस्ततुल्यः, यथा लौकिका विशेषैरेव घटादिभिर्व्यवहरन्ति तथाऽयश्ञ्च सम्मत "दयिनयपयडी सुद्धा संगहरूचणाविसओ" इति । नयोपदेशेऽपि "जातं द्रव्यार्थिकाच्छुद्धादर्शनं ब्रह्मवादिनां । तत्र शब्दसन्मानं चित्समानं परे जगुः । ११० । " 'इत्युक्तम् | आदिपदात्रिगुणात्प्रधानात्प्रवर्त्तमाना महदादयः कार्यविशेषास्तदात्मका एव कार्यकारणयोस्तादात्म्यादिति कारणस्य प्रधानस्य यत्रिगुणात्मकत्वं सत्यं तदेव तत्कार्याणामपि तथा चात्मभिन्नं सर्वमेकं त्रिगुणायकत्वादित्याद्यभिप्रायशालि यत्सांख्यदर्शनं तस्य परिग्रहः कार्यः । तस्य व्यवहारयाम्युपगतभेदसंमिश्राभेदाभ्युपगमपरत्वेनाशुद्धसंग्रहन्यप्रकृ विकत्वात्तत्प्रवृत्तत्वं ज्ञेयमिति । ईश्वरभिन्नप्रकृतिप्रक्रियांशे सांख्यदर्शनेन सह साम्यात्पातअलदर्शनस्यापि त्रिगुणात्मकत्वेन रूपेण प्रकृतितद्विकारयोर्योऽभेदस्तदंशमादायाऽशुद्धसंग्रहनयप्रकृतिकत्वात्तदप्यादिपदेनात्र श्राह्ममिति, वस्तुतरसांख्यदर्शने चेतनाचेतन वस्तुयाम्युपगमेन भेदाभ्युपगमपरत्वात्तस्य व्यवहारनयप्रकृतिकत्वमेवेति । उक्तञ्च सम्मतिटकायाम् द्रव्यार्थिको व्यवहारनयावलम्बी एकान्तनित्य चेतनाऽचेतनवर द्वयप्रतिपाद कसांख्यदर्शनाश्रित" इति । नयोपदेशेऽप्युक्तम् - "अशुद्धाद्वयवहाराख्यात्ततोऽभूत्साख्यदर्शनम् । चेतनाचेतन द्रव्यानन्तपर्यायदर्शकम् ॥ १११ ॥” इति । वेदान्तप्रकृतिभूतसंग्रहनयेनैकतथा विषयकृतस्यात्मनः भेदकरणेन संग्रहविप्रयभेदकत्वलक्षणसमन्वयाद्वयवहारप्रकृतित्वं सांख्यदर्शनस्य विवक्षितमिति 'तात्पर्यम् | शब्दझवादो हि भर्तृहरिणादृतः उक्तश्च तेन वाक्यपदीयग्रन्थे प्रथमकाण्डे -- "अनादिनिधनं ब्रह्म, शब्दतचं यदक्षरम् । विवर्त्ततेऽर्थ भावेन, प्रक्रिया जगतो यतः ॥ १॥ न सोि प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं, सर्वे शब्देन भासते ॥ १२४॥ वाग्रूपता 'चेद्वयुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी || १२५ ||" इत्यादि । शब्दार्थयोरभेद एव सम्बन्ध इति वैयाकरणाभ्युपगतिरप्येतद्वादावलम्बिन्येव, एतन्मते शब्द'ब्रह्मत्वेन रूपेण सर्वस्यैक्यं वोध्यम्, शब्दस्वभावात्मकं ब्रह्म च प्रणवस्वरूपम्, तच्च सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः । अयञ्च वर्णक्रमरूपो वेदस्तदधिगमोपायः, प्रतिच्छन्दन्यायेन तस्यावस्थितत्वात् तच परमं ब्रह्म अभ्युदयनिश्रेयसफलधर्मानुगृहीतान्तःकरणैरव गम्यते । अत्र च प्रयोगः-ये यदाकारानुस्यूतास्ते तन्मयाः, यथा घटशरावोदञ्चनादयो मृदाकारानुगता मृन्मयत्वेन प्रसिद्धाः, शब्दाकारानुस्यूताथ सर्वे भावाः तस्मात्तन्मया इति । सचिदानन्द ब्रह्मवादो हि वेदन्तिभिरादृतः, तन्मते हिं ब्रह्मभिन्नस्याशेपस्य जगतो नामरूपात्मकस्य मिथ्यात्वम्, ब्रह्मणरत्वद्वितीयसच्चिदानन्दात्मकस्य सत्यत्वम्, यतो ब्रह्मैव तेन तेन वटाद्यात्मनाऽवभासते - तथा चायं सर्प इयं माला इदं वस्त्रमित्यादाविदं स्वरूपमनुगामि तथा घटस्सन् पटस्सन् मठस्ते"नित्यादों सर्वत्र ब्रह्मात्मकसद्रूपमनुगामि, एवञ्च घटपटादिरूपस्य जगतस्सत्ता ब्रह्मसत्तैव, અનો ત્રાહર્ષળ સર્વસ્વૈવામાંત સાહનયમૂળ વાહનસ્ય સિદ્ધમિતિ । વિશેपैरेवेति-अत्रैवकारस्यान्ययोगव्यवच्छेदार्थकता तेन सामान्यनिषेधात्केवलविशेपैरित्यर्थः
१४३
अशुद्ध