________________
परवार्थविवरणपूढार्थदीपिका । पंचत्रिंशत्तम० टी० : ३९ : एतादृशोऽध्यवसायविशेषो व्यवहार इति निगद्यते । ऋजुसूत्रं लक्षयति-सतामित्यादि । सतां परमार्थसतां, न तु खपुष्पादीनामत्यन्तासता, प्रधानादीना वा संवृतिसतां, तेषामपि सांप्रतानां मध्यमक्षणपतिना, नातीतानागतानाम् , अभिधानपरिज्ञानं समाहारद्वन्द्वादभिधानं परिज्ञानं च, आश्रित्येति शेषः, ऋजुसूत्रनयो भवति, .. इदमुक्तं भवति-अर्थमभिधान परिज्ञानं च वर्तमानमेव योऽध्यवसायोऽभ्युपैति स ऋजुसूत्र इत्यर्थः । अवदाम च-" भावत्वे वर्तमानवव्याप्तिधीरविशेषिता ।। ऋजुसूत्रः श्रुतः सूत्रे " इति । भेदत्रयसंग्राहक परिभाषित व्यवहारनये विशेष प्राधान्यादेप विस्तृतार्थः, तत्प्राधान्यञ्च व्यक्ति वोपयुक्ततया सङ्केसाश्रयणादिना बोध्यम् । एतादृशोऽध्यवसायविशेषो व्यवहार इति-लौकिक-यवहारप्रधान उपचारबहुलो विस्तृतार्थविषयको योऽध्यवसायस्तवृत्तिद्र०यार्थिकत्वयाप्यजातिम व्यवहारवमित्यर्थः । लौकिकव्यवहार प्रधान इत्यनेन सूत्रादौ नातिव्याप्तिः, तन्मते क्षणिकपदार्थस्यैवाभ्युपगमन घटादिपदार्थानां स्थैर्य सत्येव दृश्यमानस्य तदानयनादिलौकिकवृत्यादिव्यवहारस्यैवानुपपत्ते, उपचारबाहुल्यञ्च स्तरनयापेक्षया विचक्षणीयम् , नातः संग्रहनये नैगमनयेऽपि च स्वस्वसिद्धान्तोचितोपचार सद्भावेऽप्यतिव्याप्तिः। अन्य नयापेक्षयोपचारबाहुल्यस्यास्मिन्नेव व्यवहारनये सद्भावात् । नानाव्यक्तिकश०सङ्केतग्रहणप्रवण इत्यर्थकं विस्तृतार्थ इति विशेषणं नया तरतो व्यवहारस्य विषयलक्षण्यप्रदर्शनेन विविक्तानेकविशेषविषयकलौकिकव्यवहारस्वरूपाक्योधार्थमुपात्तम् । उक्तव्यवहारलक्षणे नयत्वव्याप्यजातिनिवेशे द्रव्यायिकत्वजाति मादाय संग्रहादावविव्याप्तिस्स्यात् , अतवारणाय द्रव्यार्थिकत्वव्याप्यजातिनिवेशः कुन इति।
नाजुभूत्रलक्षणाऽभिधानायाह-जुमूत्रमित्यादि । संवृतिसतामित्यस न वित्ये. नान्वयः । समाहारद्वन्द्वादिति-अभिधानञ्च परिज्ञानञ्चाभिधानपरिज्ञाने, अनयोस्समाहारोऽभिधानपरिज्ञानमिति समाहारन्द्रादित्यर्थ । स्वकृतनयोपदेशसमितिमाह-अवदाम चेति । ऋजुसूत्रः श्रुतः सूत्र इति । “५च्चुप्पन्नगाही उज्जुसुओ णयविही मुणेययो" इत्येवमृजुसूत्रनयलक्षणमनुयोगदारसूत्रे विशेषावश्यकनियुक्तौ २१८४ चोक्तमित्यर्थः । तस्य चायमर्थः साम्प्रतमुत्पन्नं प्रत्युत्पन्नभुच्यते वर्तमानक्षणोत्पन्नमेवार्थक्रियाकारित्वेन सद्रपमिति तहतुिं शीलभस्येति प्रत्युत्पन्नग्राही, देशकालान्तरसम्बद्ध स्वभावरहितं वस्तुतत्त्वं साम्प्रतिकमेकस्वभावमकुटिलमजु सूत्रयति इति ऋजुत्रो नयविधितियः । उक्तञ्च "सुत्तय का जमुजु वत्युं तेणु-जुसुत्तेति ।२२२२।" अत एव । "अतीतानामताकार, कालसंस्पर्शवर्जितम् । वर्तमानतया सर्व-मृजुमुत्रेण सूत्र्यते॥१॥” इत्युक्तमपि सङ्ग छ । व्यवहार नयेनातीतानागतकालभेदेनार्थभेदो नान्युपातः, अतीतानागतकालावच्छिन्नार्थस्योत्पत्तिकालादारभ्याऽऽविनाशमेकत्येनवायुपगमात्, ऋजुसूत्रनयेन (वतीतानागतार्थयोपिनाशाऽनुत्पत्तिभ्यामसवात् , असदम्युपगमश्च कुटिल इति हेतोः सोऽप्यभ्युपगतः, तद्विशुद्धत्वात्तस्य, स्वदेशकालयो संलक्षणात्मकाऽर्थसत्ताविश्रामादतीतानागतकालमैदेन तद्विशिष्टार्थभेदवत्तद्वाचकशब्दोऽपि भिन्न एव, वाच्यभेदे वाचकभेदस्याऽयवश्यंभावात्, न तु ०५यहारनयवदृजुसूत्रनये काले