________________
परमार्थविवरणदार्थदीविका । अथाविशतितमसू० टी० : २७५ अवधिज्ञानस्य विषयनिवन्धः कथयति--
- सूत्रम् विश्ववधेः॥१॥२८॥ (भाष्यम् ) रूविष्वेव द्रव्येववधिज्ञानस्य विषयनिबन्धी भवति असर्वपर्यायेषु । सुविशुद्ध नाप्यवधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते, तान्यपि न सर्वैः पर्यायरिति
(यशो० टीका) नियमपरतया व्याचष्टे रूपिष्वेव द्रव्येवाधिज्ञानस्य विषयनिवन्धो भवति, असपर्यायनित्यनुवृत्तिलभ्यम् । उक्तमुपपादयति सुविशुद्धनापीत्यादि ॥ २८ ॥ ' 'अष्टाविंशतिस्त्रावतरणिकामाह-अवधिज्ञानस्य विषयनिबन्यं कथयतीतिरूपियवधेरिति-एतरत्रस्य नियमसूत्रतया रूपिद्रव्यत्वसमनियतविषयताकत्वमवधेर्लभ्यते । एतदेवाह-नियमपरतया व्याचष्ट इत्यादिना । ननु ययाधिज्ञान मृत्कृष्टतोऽपि पुरस्नलोकप्रतिनिखिलानि रूपीण्येव द्रव्याणि जानीते तहि लोकप्रमाणान्यलोकेऽसंख्यखण्डानि परमावधिः पश्यति, उक्तञ्च-"परमीहि असंखेजा लोकमिता" इति । क्षेत्रस्यारूपि. त्वातत्कथं सङ्गछते इति चेत्, उच्यते, यदि तत्र तानि रूपिपुद्गलानि द्रष्टव्यानि स्युस्तदा पश्येदेवावधिज्ञानी, न च तानि तत्र सन्तीत्यतरसामर्थमात्रवर्णनमेतदिति नोक्तविरोधः । उक्तञ्च भाष्यकता “सामत्थमेत्तमेयं, जइ दहवं हवेज पेच्छेजा । न य तं तत्यत्थि जओ, सो रूविनिवन्धणो भणिओ ॥६०५॥” इति । सुविशुद्धनापीति-"परमोहिनाणविओ, केवलमन्तोसुस्तमित्तेण ॥ ६८९ ॥” इति भाष्यवचनाद् यदुत्पत्यानन्तरमन्तर्मुहूर्तकालमात्रेण नियमेन केवलज्ञानमुत्पद्यते तेन "रूवगयं लहइ सव्यं " इति माण्यवचनात्सर्वलोकान्तर्गतपरमावादिभेदाभिन्ननिखिलपुद्गलद्रव्यागाहिना केवलज्ञानभास्करोदये प्रथमप्रभास्फोटकल्पनाऽऽत्मीयातिविशुद्धिसमुत्पनेन परमावधिनापीत्यर्थः । अपिशब्देन यदि सुविशुद्धनावधिज्ञानेन रूपीण्येव द्रयाणि न त्वरूपीणि जानीतेऽवधिज्ञानी तयविशुद्धेन तेन वान्येव जानीते इत्यत्र किमु वक्तव्यमिति सूचितम् । तान्यपि न सर्वैः पर्यायैरितिभाषयम् अवधिज्ञानेनानन्तेषु द्रव्येषु समुदितेष्वनन्तान् पर्यायानवधिज्ञान्येकदा जानाति, आधारद्रव्यानन्तत्वेन तेषामनन्तत्वात् , न त्येकैकद्रव्यगतानुत्कृष्टतोऽप्यनन्तान् सर्वपर्यायान् , अवधिज्ञानस्य तथाविधावधिज्ञानावरणकर्मक्षयोपशमाभावेन तथाविधशाक्यभावात् , किन्तु जघन्यतो प्रतिद्रव्यं चतुरः पायान् , उक्तञ्च “पेच्छइ पउग्गुणाई जहणओ मुत्तिमंताई ॥ ८०७॥." इति । प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि मूर्तिमन्ति द्रव्याणि जयन्यतोवधिज्ञानी जानाति पश्यति चेत्यर्थः । उत्कृष्टतस्त्वसंख्येयपर्यायान् । अयम्भावः उकतिस्त्वकैकद्रयमाश्रित्यासंख्येयपर्यायाणि मूर्तिमन्ति सर्वाणि द्रव्याणि जानाति पश्यति चेति । उक्तञ्च-" पदवं संखाईयपजयाई चसयाई ।।८०८॥" इति ॥२८॥
(यशो० टीका ) मनःपर्यायज्ञानस्य विषयनिवन्धमाह एकोनत्रिंशत्तमसूत्रमयतारयाह-मनापर्यायज्ञानस्य विषयनिबन्धमाहेति ।