________________
.. २७६ : पार्थविवरणदार्थदीपिका । एकोनत्रिशत्-विशत्तम०टी०
सूत्रम् तदनन्त(तम)भागे मनःपयरय ॥१॥ २९ ॥ (भाप्यम् ) यानि रूपीणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्तमागे मनःपर्यायस्य विषयनिवन्धो भवति । अवधिज्ञानविषयस्यानन्तभागं मनःपर्यायशानी जानी रूपिद्रव्याणि मनोरहस्यविचारणतानि च भानुषक्षेत्रपापनानि विशुद्धतराणि चेति ॥
(यशो० टीका ) तेषां तदर्थप्रतियोगीन्यादाय व्याचष्टे-यानि रूपाणि रूपवन्ति, जानात्यवधिज्ञानी तेषामन तिमभागे मनःपर्यायज्ञानस्य विषयनिवन्धो भवति । तत्कर्मककत्रुक्तिमाहअवधीत्यादि, रूपिद्रव्याणीत्यत: पूर्व तानीत्यध्याहार्य, तानि मनःपर्यायज्ञानाखाणि रूपिद्रव्याणि, न . कुट्याधाकारव्यवस्थितानि, किन्तु, मन एव यद्रहस्यमप्रकाशखरूपं तत्र यो विचारः कथमय पदार्थो व्यवस्थित इत्येवंरूपस्तत्र गतानि प्रविष्टानि पि.त्यमानानि जीवेनेति यावत् । तान्यपि न सर्वलोकवानि, किन्तु मनुष्यक्षेत्रे पर्यापन्नानि व्यवस्थितानि, तान्यपि विशुद्धतराण्यवधिज्ञानिनः सकाशाद् वहुतपर्यायाणि ॥२९॥ न त्याचा कारव्यवस्थितानीति न कुटीघरपटाधाकारण वायवर्तिद्रव्याणीत्यर्थः, एतच्च पूर्वमेव विवेचितमिति किं पिष्टपेषणेन ? । चिन्यमानानि जीवेनेति संज्ञिपञ्चेन्द्रियजीवन काययोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि मानसिकविचारणानुगुणानीत्यर्थः । मनुष्यक्षेत्र इति-अर्धतृतीयद्वीपसमुद्रद्वयपरिमाणे मानुपक्षेत्रे इत्यर्थः, एतेन मनापर्यायज्ञानी न तबहिर्भूतप्राणिमनास्यवगच्छतीति ज्ञापितम् । उक्तञ्च "मुणइ मणोदवाई नरलोए सो मणिज्जमाणाई ।। ८१३ ॥” इति ॥ २९॥ एकोनत्रिंशत्तमसूत्रटीका समाप्ता॥
(यशो० टीका) केवलज्ञानविषयमाह त्रिंशतमसूत्रमवतारयन्नाह केवलज्ञानविषयमाहेति ।
सूत्रम्-विद्रव्यपर्यायेषु केवलस्य ॥ १॥ ३० ॥ (भाष्यम्) सर्वद्रव्येषु सर्वपर्यायेषु च केवलशानस्य विषयनिवन्धो भवति । तद्धि सर्वभावग्राहक संमिन्नलोकालोकविषयम् । नातः परं ज्ञानमस्ति । न च केवलज्ञानविषयात्परं किञ्चिदन्या
नेयमस्ति । केवलं परिपूर्ण समग्रमसाधारण निरपेक्षं विशुद्धं सर्वभावशपक लोकालोकविषयमनन्तपर्यायमित्यर्थः ॥३०॥ मत्राह । एषां मतिज्ञानादीनां युगपदेकरिगजीवे कति भवन्तीति। अत्रोच्यते
(यशो० टीका) व्याचष्टे सर्वद्रव्येष्वित्यादि । हेतुमाह पद्धीत्यादि, हि यतः, तत् केवलज्ञान, सर्वेषा भावानां द्रव्यक्षेत्रादीनां ग्राहक, तथा संमिन्नी सम्पूर्णौ यौ लोकालोको तद्विषयम् । अतोऽस्मारकेपलापरं प्रधानतरं,न ज्ञानमस्ति, जात्या परत्वं भविष्यति, न विषयव्याप्त्येत्यत आह-न चेति । केवलज्ञानविषयात् सर्वद्रव्यपर्यायराशेः, परम्, उत्कृष्टम् , अन्यत् किंचित ज्ञेयमति, यदप्रकाशितं भवेत्केवले.
સર્વદ્રવ્યપર્યાપુ વરુતિ હસે, વ્યાગિ જ પર્યાપા દ્રવ્યપર્યાયા इततिरतरयोगलक्षणो द्वन्द्वो विधेयः, न तु द्रव्याणां पर्याया द्रव्यपर्याथा इति तत्पुरुषः समासः, तथा सति द्रव्यपदमनर्थकं स्यात्, यतो नाद्र०यस्य पर्यायासन्ति, किच तत्पुरुषस्योत्तरपदार्थप्रधानत्वात्रोत्तरपदार्थरूपपर्यावाणामेव ज्ञानं केवलिनस्यात्, न तु प्राधान्येन पूर्वपदार्यरूपद्रव्याणां ज्ञानं स्यात् । ननु द्वन्द्वसमासोऽपि - तत्रैव - भवति यत्र