________________
: २३२ :
तत्वार्थविवरणदार्थदीपिका । पोडश मु० टी० विधावग्रह इत्यर्थः । गुणा जात्यादिरूपाः । यदा तु योपिदादिस्पर्श कैकगुणसमन्वितं शीतोऽयमिति वा स्निग्धोऽयमिति वा मृदुरयनिति वेत्यवच्छिनति तदा एकविधमणातीत्युच्यते । कोलाहलप्रत्यक्षं प्रत्येक ततज्जात्युपरागेण वहूनां ग्रहणं पहवाह इति पक्षेऽबहुमध्ये, अन्यथा त्वेकविधमध्येऽन्तर्भावनीयम् , अगृहीतकरयादिनानाशब्दसमुदायस्यैव कोलाहल पदार्थत्वात् , कोलाहले दोपविशेषेण प्रतिबन्धान कत्वादिप्रत्यक्षमिति तु मन्दम् , बहुबहुविधक्षयोपशमवतस्तदापि तत्प्रत्यक्षात् । न च कोलाहले कत्यादिग्रहवारणाय तत्तदोषाभावानां तत्तत्पुरुषायकत्वादिप्रत्यक्षहेतुत्वमिति नैयायिकादिकल्पितं ज्यायः, अनन्तदोपाभावाना हेतुत्वमपेक्ष्यानुगतक्षयोपशमहेतुताया एव युक्तस्वात् । तस्य हि कार्यतावच्छेदक नानाविषयस्थलीयनानाधर्मप्रकारकप्रत्यक्षत्वमिति कार्यतावच्छेदकेऽपि लाघवमेवमाश्रितं भवति, प्रतिनियतद्विवादिधर्मप्रकारकबहुविधप्रत्यक्षानुरोधेन च बहुविवत्वादिव्याप्यधर्मावच्छिन्नमयोपशमविशेषस्य हेतुत्वमावश्यकम् , दोषाभावे जातिरूपविशेषासम्भवात् , तथा च यद्विशेष इति न्यायेन सामान्यतोऽपि क्षयोपशमस्यैव हेतुत्वं युक्तमिति विभावनीयं प्रामाणिकैः । तमेव भूयो योपिदादिस्पर्शमाशु स्वेनात्मना यदावच्छिनत्ति तदा क्षिप्रभव
पातीति भण्यते । यदा तु तंबहुना कालेनावच्छिनति तदा चिरेणावगृह्णातीत्युच्यते, स्वल्पास्वल्पेहा कृतोऽत्र विशेषो द्रष्टव्यः । अनिश्रितमवणातीति निश्रितो लिङ्ग प्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तशीतमृदुस्निग्धादिरूप. स्पर्शोऽनुभूतस्तेनानुमानेन लिङ्गेन विना यदा तं विषयं परिच्छिनत्ति तदाऽनिश्रितमयणातीत्युच्यते, अनिश्रितमलिङ्गमित्यर्थः । यदा त्वेतस्मादाख्यातालिलझापरिच्छिनत्ति तदा पयनिष्ठानेका साधारणच्याप्यवहुतरधर्मावगाह ज्ञानं बहुविधावग्रह इति लक्षणं पर्यवस्यति । जात्यादिरूपा इति-शीतत्वस्निग्धत्वादिजातिरूपा इत्यर्थः । अबहुमध्ये इति-तत्तजात्युपरागेण बहूनां विषयाणां ग्रहणाभावात् कोलाहलप्रत्यक्षे बहूनां विषयाणां प्रातिरिखकधर्मप्रकारकमहत्वं बह्ववग्रहत्वमिति लक्षणसङ्गमनाभावेन न तद् बह्वग्रहरूपमिति तदवह्नवग्रहमध्येऽन्तर्भाव नीयम् , कोलाहलोऽयं श्रूयत इत्येवमव्यक्तस्वरूपतया जानाति, अल्पक्षयोपशमत्वात्, न तु विभिन्नस्वस्वजातिरूणेति हेतोस्तद्भिन्नज्ञानत्वात् , तत्त्वञ्चासाधारणधर्मानुपरागेण बहुविषयमाहित्वमनवग्रहत्यम् । तस्य च लक्षणस्य विभिन्नजातीयाने कशब्दसमुदायो हि कोलाहल इति तेषां सर्वेषां शब्दानां स्वस्वाऽनावारणधर्भानुपरागेणाऽव्यक्तस्वरूपेण नाना शब्दा एते इति सामान्यज्ञानसद्भावेन तत्र सङ्गतिर्भावनीयेति । अन्यथेति-विभिन्नजातीयानां तेषां शब्दानां मध्ये अशेपस्वविषयनिष्ठा साधारणधर्मव्याप्यस्वल्पतर वर्मग्रहणे इत्यर्थः । लाघवमिति रातपपीयकवादिप्रत्यक्षाऽनिवेशादिति भावः। दोषाभावेजातिरूपविशेषास भवादितिदोषाभावस्य तुच्छरूपत्वेन तत्र तत्तत्पुरुषीयकत्यादिप्रत्यक्षकारणतावच्छेदकजातिरूपविशेषाऽसम्भवादित्यर्थः। यद्विशेष इति न्यायेनेति-यद्विशेषयोः कार्यकारणभावस्तसामान्ययोरपीति न्यायेनेत्यर्थः । आश्चिति-शीघ्रमित्यर्थः, झटित्युपनतसामग्रीकत्वादिति भावः । स्वेनात्मनेति-स्वगतासाधारणधर्मेणेत्यर्थः, बहुना कालेनेति कालान्तरावच्छेदेनैव तत्सामग्रीस भावादिति भावः । अनिश्रितमित्यस्यार्थमाह अलिङ्गमित्यर्थ इति यन लिङ्गानिश्रामपेक्षते