________________
:२२४
तत्त्वार्थविवरणपूढार्थदीपिका | पंचदशसू० टी० . भ्रमादिविरोधित्वेनैव विशेषदर्शनस्य हेतुत्वादीहीया न सर्वत्र निश्चये उपयोग इति चेत्, न, आलोकादिनाऽर्थस्यैव योग्यतापादनम् , निश्चयस्त्ववाहादिक्रमेणैवेत्यभ्युपगमात् । अनुभवसिद्धं चेतत् सामान्यज्ञाने सति । विशेपो जिज्ञास्यते ततश्च निश्चीयत इति । अथावग्रहे सति धर्मिज्ञानकोटिद्धयोपस्थितिसामन्या संशयेनैव भवितव्यमितीहाया अनवकाश एवेति चेत्, न, तथापि तदनन्तरमेककोटिसहचरितभूयोधर्मानुगमन०या- . पारस्येहासाध्यत्वात् , संजयादुत्तीर्णत्वेन निश्चयाभिमुखत्वेन च तस्या विलक्षणत्वात् , अस्तु तर्हि उक- . कोटिक एव संशय ईहा, ज्ञानान्तरकल्पनलाधवादिति चेत्, सत्यम् , तथापि तुल्यकोटिद्वयं संशयमुपमृद्य । एककोटिसह चरितभूयोधर्मावगाहनेन तदुत्कटत्वमनुभवन्त्यास्तस्याः प्रायोऽनेन स्थाणुना भवितव्यामत्या- . काराया दीर्घविचारात्मिकायाः संशयाद्भिन्नत्वात् , एककोटिसह चरितभूयोधर्मज्ञानेन प्रागेवोत्कटकोटिकः .. संशयो भवन्नीहाव्यपदेशभरनुन इति तु स्वहंगोष्ठीमात्रम् , तापद्विचारस्य ज्ञानान्तरनिबन्धनत्वात् , विशेषदर्शनसामग्रीत्वेनोत्तरकाल इव संशयनिवर्तकत्वाच्च । स्वालोकादितः साक्षादेवार्थनिश्चयः, किन्यवहादिक्रमेणवैति निश्चये ईहाया उपयोग आवश्यक इति समाधत्ते-नेनि । अवग्रहेहाबायानां क्रमिकत्वे-नुभवं प्रमाणयति-अनुभवसिद्धमिति । अवग्रहानन्तरं संशयसामग्रसिद्भावात्संशय एव स्थात्, न त्वीहेति शङ्कते-अयेति । भवतु अवनहानन्तरं संशयस्तथापि तदनन्तर मीहाव्यापारोपलव्धेरीहाप्यभ्युपेवेति समाधत्ते-तथापीति ।' तदनन्तरं-संशयानन्तरम् । इहायाः संशयनिश्चयाभ्यां बैल झण्यमावेदयति-संशयादुतीर्णत्वेनेनि सामान्यावग्रहे सति साधारणधर्मदर्शनात् कोटिद्वयप्रकारकसंशयः, ततोऽपि प्रभातुर्विशेष- - लिप्सायामनेन भवितव्यमित्येवमीहा जायते इति संशयोत्तरकालभावित्वेन तत्कार्यतयेत्यर्थः । ईहायासंशयाद्धिनत्वे हेत्वन्तरमप्याह-निश्चयाभिमुखत्वेनेति। तस्या-हायाः। पराभिमतसम्भावनारूपत्येनेहायासंशयेऽतविमाशङ्कते-अस्तु तहीति । उत्कटकोटिकत्वमस्या भवतुः नाम तथापि संशयमुपमृद्य जायमानाया अस्यास्संशयाद्भिनत्वमेव, आकारतोऽपि संशयाद्भिनत्वमेवास्या अनुभवपथमायातीति समाधत्ते-सत्यमिति । तदुत्कटत्वम्-एककोटे कटत्वम् , तस्या-ईहाया। पूर्व कोटिद्वयविषयक संशयो भवति तदनन्तरमीहा भवतीत्येव नास्ति, येन संशयोत्तरकालीनत्वेन संशयाद् भेदो भवेत् , किन्तु संशयकालत्वेनाभिमतकाल एवैककोटिसहचरितभूयोधर्मज्ञानेन जायमान उत्कटकोटिकसंशय ईहेतिः कथमस्थाः संशयाद् भेद इत्यत आह-एफकोटीति । दीर्घोपयोगरूपत्वे सत्येवास्था स्थाणुत्वव्याप्यवकोटरादिमत्रज्ञानादिपर्यायसमन्ययो भवितुमर्हतीति- ज्ञानान्तरत्वमेवास्या न संशयत्वमित्याहतावद्विचारस्येति-पत्र च न संशयः किन्तु प्रथमत ईहाया एव भावस्तत्रापि तस्याः विशेषदर्शनसामग्रीत्वेन उत्तरकाले संशयानुत्पादकत्वलक्षणसंशयनिवर्तकत्यवत्पूर्वकालेऽपि संशय- .. निवर्तनयोग्यत्वं समस्त्येव, संशयाभावाच न तन्निवृत्तिः, संशये च न संशयनिवर्स त्वमितिः । संशया दोनश्यमस्या दीविचाररूपाया इत्याह विशेषदर्शनसामग्रीत्वेनेति | Sh रीत्या भेदकसौलभ्येऽपि यस्यासंशयेऽन्तविरहि निश्चयत्वेनाभिमतज्ञानस्याप्यनुत्कोटिक