________________
तपार्थ विवरणगूढार्थदीपिका | पंचदशसू० टी० इच्छापत्वेन च न ज्ञानत्वविरोध', इच्छाया अपि भाव्यत्वप्रकारकज्ञानविशेषरूपत्वात् , भाव्यत्वमर्थे प्रकार इति जिज्ञासात्वोक्तिविरोधी ज्ञानविषयिण्या इच्छाया एव जिज्ञासात्यादित्यपि न शङ्कनीयम्, अत्र जिज्ञासापदेन ज्ञानावच्छिन्नार्थविषयकेच्छाया एव ग्रहणात् , अत एव जिज्ञासायाः प्रत्यक्षहेतुत्से घटायोन्मीलितं पटं न प्रकाशयेदित्यादि दूषणमपि परास्तम् । ज्ञानविषयकेच्छायाः स्वातन्त्र्येण हेतुत्वोक्तो तहोपावतारेऽप्यर्थकथंता
पायातस्या हेतुत्वे दोपाभावात् । अस्याः स्थाणुत्वव्याप्यचक्रकोटरादिमत्वज्ञानपुरुषत्वव्याप्यकरचरणाद्यभावज्ञानभाविज्ञानप्रामाण्याऽप्रामाण्यरूपसम्भवासम्भवादिज्ञानपर्यायै. समन्वयो दीर्घोपयोगत्वे सम्भवी, परेषा तु तावता पर्यायाणामेकदानवस्थानात् क्रममाविना च मेलकाभावात् सर्वमेव दुर्घटम् । अथालोकादिसाधारण्येन
मिति तथा चास्था नाप्रामाण्यमिति भावः । ननु जिज्ञासा इच्छाविशेष एक, तद्रूपत्वे च ज्ञानरूपत्वमपि न भवेदिति मतिज्ञानविशेषत्वं कथमस्था इत्यत आह-इच्छारूपत्वेन चति । न नैयायिकमत इव स्याद्वादिमते ज्ञानतो भिन्ना भवतीच्छा, किन्त्वभिन्नैव-इद भवतु इद भूयात् इत्याद्याकाराया भाव्यत्वप्रकारकज्ञानविशेषरूपाय। एक तस्या अभ्युपगमादित्याहइच्छाया अपीति । ननु नेच्छामात्र मीहा, किन्तु जिज्ञासा पा सा, ज्ञानविपयिणी चेच्छा जिज्ञासा, भाव्यत्यप्रकारकचार्थविशेष्यकं ज्ञानं तु न ज्ञानविषयकमिति नास्या जिज्ञासात्वसम्भव इत्याशङ्काम्प्रतिक्षिपति भाव्यत्वमर्थे प्रकार इतीति । प्रतिक्षेपे हेतुमाह-अत्रेति-ईहा. स्थले इत्यर्थः, ज्ञानीयविषयताविशेष एव भाव्यत्वं, तस्याविशेषणत्वे ज्ञानावच्छिनत्वमर्थे समागतमेव, इदं ज्ञातं भवमित्याकारकत्वेऽपि ज्ञानावच्छिन्नार्थविषय त्याहाया इत्याशयः, अत एव-ज्ञानावच्छिन्नार्थविषयक छाया एक जिज्ञासात्वादेव, अस्य परास्तमित्यनेनान्वयः, घटविषयकज्ञानविषयकेच्छाया घटप्रत्यक्षहेतुत्वे ततो घटप्रत्यक्षमेव स्थात्, पटविषयकज्ञानेच्छायाः पटप्रत्यक्षकारणीभूताया अभावेन ५८प्रत्यक्षं न स्यादिति दोपस्तदा स्थादि तथाकार्यकारणभावो भवेत् , न चैवम् , किन्तु माश्यत्वप्रकारकार्थविशेष्यकज्ञानविशेष पजिज्ञासाया एवावायलक्षणप्रत्यक्षहेतुत्वस्य स्वीकारेणोक्तदोषाभावादित्याह ज्ञानविषयकच्छाया इति । अर्थकयन्तेति-अर्थस्य प्रकारविशेषसम्भावनलक्षणजिज्ञासेर अर्थकथन्ता, तद्रूपाया ईहाया अवायलक्षणप्रत्यक्षहेतुत्वे दोपाभावात्, यस्येहा तस्यैवावाय इति नियमात् । अयमाशयः, घटप्रत्यक्षायोद्घाटितं चक्षुर्यत्र तत्र पस्य सन्निकटत्वे तस्थावग्रहेहासद्भाव एवावायो भवति, न सन्यथेति पटावग्रहात्मकज्ञानविषयीभूतार्थविशेष्यकभाव्यत्वप्रकारहालक्षणजिज्ञासात एक पटस्यावायात्मकप्रत्यक्षं भवतीति तं प्रत्युक्तजिज्ञासाया। त्रापि कारणत्वं निर्वहतीति नोक्तकार्यकारणभावे व्यभिचार इति तादृशव्यभिचारप्रदर्शकं पटं न प्रकाशयेदिति वचो न युक्तमिति । इयश्वेहा स्याद्वाद एव दीर्घोपयोगरूपत्वात्सङ्गतिमङ्गति, न परमत इत्याह-अस्या इति। परेषां-नैयायिकादीनाम् । इहानन्तरमेव निश्चयलक्षणापाय इति नियमप्रतिक्षेपणाय शकते-अथेति । आलोकादिसनाचे चक्षुरादिग्रहणयोग्योों भवति, न