________________
: २२२ : तत्वाविरणार्थदीपिा । पंचदश० टी० एवमवमहमुक्त्वा ईहायाः स्वरूपं व्याविख्यासुराह-अवगृहीतेत्यादि । अवगृहीतेति क्रमप्रदर्शनं अवगृहीतमेवेह्यत इति । अवग्रहगोचरीकृतो यो विषयस्यार्थस्य सामान्यविशेषात्मकवाउन एकदेशः सामान्यम् , तस्मादनन्तरं शेपस्य भेदस्य विशेषस्येति यावत् , अनुगमनं विचारणम्, ईहाशब्दस्यच्छायां रूढिमनुरुध्याह-निश्चयेति । निश्चीयतेऽसाविति निश्चयः, विशिष्यते भिधतेऽस्मादिति विशेषः, ततः कर्मधारयः । तस्य ज्ञातुमिच्छ। जिज्ञासा सेहा। किमयं मृणालीस्पर्श उताहो सर्पस्पर्श इत्याकारति टीकाकृतः । सा चे व्यावहारिकावाहजन्या द्रष्टव्या। नैश्चयिकावाहजन्या तु किमयं स्पर्श उतास्पर्श इत्येवंरूपा विशेषावश्यकप्रसिद्धा समुन्नेया । जिज्ञासारूपत्वादेवास्या न संशयरूपत्वम् । वासणेत्यादि सर्वत्र वासना तथा कालान्तरे तिश्च, सा च सर्वत्र भणिता । अयमत्र भाषा-अविच्युतिरूपा धारणाऽायाव्यवहितोत्तरसमय एव भवति, वासनास्मृतीतु सर्वत्र कालान्तरेऽप्यविरुद्ध इति । अनुगमनं विचारणमिति-भाष्यकारोऽप्यभ्यधात् “भेयमग्गणमहेहा" इति । १८०। भेदा वस्तुनो धर्माः तेषां मार्गणमन्वेषणं विचारणं, प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिकण्डूयनादयः पुरुषधर्मा इत्येवं परंतुधर्मविचारणहित्यर्थः । निश्चीयतेऽसाविति निश्चय इनि-निश्चित इत्यर्थः। विशेषपदस्य व्युत्पत्तिमाह-विशिष्यते भिवते. ऽस्मादिति विशेष इति । तस्य-निश्चितविशेषस्य । विशेषावश्यक प्रसिद्धा समुन्नेयेतिविशेषावश्यके मतिज्ञानद्वितीयभेदेहालक्षणनिष्कर्ष एवमुक्तः। " इय सामण्णहणाणतरमीहा सदत्यवीभसा । किमिदं सदोऽसदो को होज व संखसंगाणं? ॥२८९।।" इति । इत्येवं प्रागुक्तप्रकारेणाऽनिर्देश्या व्यक्तसामान्याऽर्थमात्रग्रहणलक्षणनश्चयिकार्थावग्रहो यः यश्चोत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणलक्षणव्यावहारिकार्थावग्रहस्तदनन्तरमीहा जायते सा कि लक्षणेत्यत आह-सदर्थमीमांसति सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा फिमिदं पर मया गृहीतं शब्दोऽशदो पा रूपादिरित्येवं स्वरूपा, इदं नैश्चधिकार्थावग्रहान तरभाविन्या ईहायास्वरूपमुक्तम् , व्यावहारिकार्थावग्रहानन्तरसम्भविन्या स्थावरूपमाह को होज वेत्यादि । शासशाङ्गयोर्मध्ये कोऽयं भवेच्छन्दः शासः शाङ्गोवत्येवं स्वरूपहा प्रवर्त्तते । नक्तप्रकारा विचारणा संशयात्मिका, न त्वीहात्मिकेति चेत्, सत्यम् , तथापि परमार्थवृत्त्याऽवगृहतिार्थस्य भवितव्यताप्रत्ययरूपतयापायाभिमुखः आधपक्षे प्रायः शब्देन भाव्यं न रूपादिनेत्याकारको द्वितीयपक्षे च प्रायः शाञ्जेन शब्देन भाव्यं न शाङ्गेनैत्याकारको मतिविशेष एवेहा ज्ञातव्या, तद्यथा-"अरण्यमेतत्सवितास्तमागतो, न चाधुना सम्भवताह मानवः। प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाना ॥१॥” इति । एतेन स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुषधर्मव्यतिरेकनः स्थाणुधर्मभसन्वयतश्च प्रायः स्थाणुरेवायमिति बोध ईहेत्युपदर्शितम्भवति । अत एव प्रमाणनयतत्वालोकालकारे" अवगृहीतार्थविशेषाकाणमीहा" २-८ इत्युक्तलक्षणमपि सङ्गच्छते । हा न संशयरूपेत्यन हेतुमाह-जिज्ञासारूपत्वादेवेति । अस्याः-इहायाः । न संशयपत्य.