________________
uपार्यविवरणदार्थदीविका । पंच। सू० टी० : २२५ : न चेदेवं तदाऽनुकटकोटिकसंशयन निश्चयोऽप्यपोधेत । वदन्ति छापातनिश्चयमीशमेव वेदान्त्याभासा इति न किञ्चिदेतत् । एवं स्वचित्तगतामहा निरूप्य पर्यायशर्थती नानात्वमप्रतिपद्यमानरसन्मोहार्थ तामेव व्याचष्टे । ईहा ह इत्यादि। अपायं निरूपयति-अवगृहीतेत्यादि । अनेनापि क्रममाचष्टे, अवगृहीत स्पर्शादिसामान्यविषये किमयं स्पर्शोऽस्पर्शो वा किं मृणालस्पर्श उताहि स्पर्श इति वेहाया संशय एवान्तवोऽस्तु, संशयस्वाभाव्याद् द्वितीयकोटि सद्भावेऽन्यनुत्कटत्वान्न तदाकारालेख इत्यस्य वक्तुं शक्यत्वानिश्चयकथैव समुच्छिन्ना स्यादित्याह न देवमिति । संशयनिवर्तकत्वेनहाया संशया दो नाङ्गीक्रियते चेदित्यर्थः । ननूकटकोटिकज्ञानस्य संशयत्वं नैयाथिका अभ्युपगच्छन्ति ततस्तन्नीत्याश्रयणेनेहाया संशयत्वं वक्तुं शक्यत, अनुत्कटकोटिकसंशयस्य निश्चयत्वं न केनाप्युररीक्रियत इति कथमनुत्कटकोटिकसंशयरूपता निश्चयस्येत्यत आहवदन्ति हीति-तथा च नावृष्टचरीत्थं कल्पनाऽपि । निश्चयज्ञानस्य निश्चिनोमीत्यनुव्यवसायाधदि न संशयत्वं तर्हि इहाया अपि सम्भावामीत्याध नुव्यवसायो न तु सन्देहीति न तस्या अपि संशयत्वमित्याशयः । ननु संशयहयो_लक्षण्यं न वीक्षामहे इति चेत्, सोऽयं पुरुपदोपः, न तु वस्तुदोपः, तयोर्भेदस्पानुभविकत्वात् , तथाहि-" एकवर्मिणि विधिनिषेधोभयज्ञान संशयः, हेतूपपत्तिव्यापारप्रवणं ज्ञानमीहा" इति लक्षणभेदेनानयोर्मेद स्फुटमनुभूयते प्रेक्षावद्भिः। यदाह भाष्यसुधासुधाम्भोधिः-"जमणेगत्थालम्बण-मपज्जुदासपरिकुंठिअं चित्तं । सेय इस सपप्पयओ, तं संसयरूवमणाणं ।। १८३॥" इति । “तं चिय सयत्थहेऊ-बत्तिवावारतप्परममोहं । भूआभूअविससा-याणचायाभिमुहमीहा ।। १८४॥" इति । अत्रानेकार्थाल वनमित्यत्रालम्बनपदेन कालम्बनत्वविवक्षणात्, अनेकार्थपदेन विरुद्धार्थत्वलाभात् “एकथर्मिनिष्ठ विशेष्यतानिरूपितविरुद्धधर्मनिष्ठप्रकार तानिरूपकं ज्ञानं संशयः" इति संशयस्य लक्षणम् , तस्वरूपविशेषणमाह-अपर्युदासपरिकुण्ठितमिति-उपलक्षणन्यायेनाविधिपरिकुण्ठितमिति ज्ञेयम् , न पर्युदासोनिषेध इत्यपर्युदास, विधिरिति यावत्, तेनोपलक्षणन्यायलब्धेनाऽविधिना च परिकुण्ठित जडीभूतं वस्तुनिश्चयकरणाऽसमर्थमित्यर्थः । संशयपदव्युत्पत्यर्थमाह-शेत इव स्वपितीव सनीत्मना न किश्चिच्चेतयते तदेवविधं चित्तं संशय उच्यते, तच वस्तुगत्याज्ञानमेव व तत्वनिश्चयाSक्षमत्वादित्यर्थः।। १८३॥भाष्यकार ईहालक्षणमाह-तं चियेत्यादि, यच्च ज्ञानं सदहतूपपतिव्यापारतत्परं तदीहा, सदर्थेऽण्यादौ विधमानस्थावादिविपये हेतुल्यापा: स्थाणुरयं पल्ल्युपसर्पणकाकादिनिलयादित्याकार, उपपत्तिव्यापारश्च सम्भवपालोचनं यथा सूर्यास्तसमये महति तमिसे स्थाणुरयं सम्भाव्यते, न तु पुरुषः, तदनुमापकशिरःकण्डूयन करनीवाचलनादिहेतोरदर्शनादिति, तदेवंविधहेतूपपत्तिव्यापारप्रवणमाहात्मज्ञानमिति सिद्धं भवति । तस्वरूपविशेषणमाहभृयाभूयेति । भूतो विद्यमानो विवक्षितप्रदेश स्थावादिरर्थः, अभूतस्तत्राविधमानार्थः पुरुषादिः, તાવ વિરોૌ તવરાઘલ થવાવાનું પ્રહ દિયા યત્યાસ્તવમમુર્ણ, જ્ઞાનમહત્યર્થ, २९ । ।