________________
तत्वार्थविवरणमूढार्थदीपिका । ए० म०टी० मिथ्याय पायव्यवच्छेदाय सद्रव्यानुगत इति विशेषणम् , विशेप्यालेनावग्रहहयोरनिश्चितयोव्र्यव
छेदः । क्षीणदर्शनसप्तकस्य तु केवल एवापायांशोऽर्थतो ग्राह्यः। यथाऽपायश्चापायश्चापायौ सद्रव्यं च, सद्यं च सद्रव्ये । अपायौ च सद्रव्ये चापायसद्याणि तेषां भावस्तयेत्येकशेपादुमयसङ्ग्रहः । अक्षीणदशनसप्तावस्थायामपायसद्व्ययोः क्षीणदर्शनसप्तकावस्थायां चापायरूपस्य सद्द्रव्यस्य तत्परिणतशुभात्मस्पस्य समन्वयात् । एवं श्रुतज्ञानस्याप्यपायांशः प्रमाणयितव्य इति. टीकाकृतः । स च पदार्थमहावाक्यानुसन्धानोत्तरभावी महावाक्यार्थपरामर्श ऐदंपर्यार्थपरामर्शो. पेति यमनुपश्यामः, अपश्चितमेतद् ज्ञानविन्दौ । व्यभिचारोद्धारकहेतुपर्यवसानार्थमाह तदित्यादि। तन्मतिज्ञान, इन्द्रियाणि श्रोत्रादीनि, अनिन्द्रिय मन ओवज्ञानं च, तानि निमित्तं यस्य तत्तथा । न ही.. न्द्रियाण्यनिन्द्रियं च विरह य तस्य ज्ञानस्य संभयोऽस्ति । तथा च निमित्तापेक्षत्वादित्यत्र निमित्तमिन्द्रियरूपं विवक्षितं मयेतीन्द्रियनिमित्तत्वादिति हेतूकरणे न कोऽपि दोप इति भावः । श्रुतज्ञानस्यापीन्द्रियनिमि
वापरोक्षत्व मिद्धयत्येव । तथापि निमित्तभूयस्त्वेनाम्युच्चयमाह पूर्वकत्वादिति, तन्मतिज्ञानं पूर्व पूरक पालकं यस्य तस्य भावस्तत्वं तस्मात्, भवति हि भतिज्ञानं श्रुतज्ञानस्य पूरकं पालकं च, मत्युकर्षण श्रुतोकान यावन्मतिस्तावच्छ्तावस्थितेच, परोपदेशस्तीर्थकरादिवचनं, तज्जत्वाच्च श्रुतज्ञानं परोक्षम् । भाः । मिथ्यादृष्ट्यपायव्यवच्छेदाय-मिथ्यादृष्टयपाये पक्षतावच्छेदकनिरासाय । व्यवच्छेदः-पक्षतावच्छेदकन्यवच्छेदः । तथा च मिथ्यादृष्टयपायस्यावग्रहहयोश्च पक्षतावच्छेदकानाक्रान्तत्वान्न तत्र परीक्षप्रमाणत्वरूपसाध्यस्थामावनिश्चयेऽपि वाध इति भावः । स्वरूपासिद्धिदोपनियत्यर्थमाह-न हीन्द्रियाणीति । न कोऽपि दोष इति-निमित्तापेक्षत्वादित्येतावन्माअहेतु करणेऽवधिज्ञानादित्रयमपि निमित्तापेक्षमेवोत्पयत इति तत्रोक्तहेतुर्वर्तते, न च परोक्षयसाध्यमिति यो व्यभिचारः प्रदर्शितसोऽपि नेत्यर्थः । तत्पूर्वकत्वादिति-यभाष्ये प्रोक्तं तत्' "महपुवर्ग सुयं ' इत्यागमवचनमनुसृत्यैव, पू पालनपुरणयोरिति जुहोत्यादिगणपठितधातोः पिपत्तीति विग्रहं कृत्वा पूर्वमितिरूपं निपातनात् सिद्धयति, ततश्च पूर्व पूफिरूपं पालकर पञ्चेति विविधमिति तदुमयार्थकपूर्वशतवाटितसमासमाह-तन्मतिज्ञानं पूर्व पूरकमित्यादि । मतिज्ञानं श्रुतज्ञानस्य कथं पूरकमित्याशङ्कायां हेतुमाह-मत्युत्कर्षेण श्रुतोत्कर्षादितिअनुप्रेक्षादिकालेऽभ्यूहनाच्छ्तपर्यायवृद्धिर्भवतीत्यनुप्रेक्षादिकालीनोहादिलक्षणमतिज्ञानपाटवविभवप्रकर्षण श्रुतज्ञानपटुताविभवप्रकादित्यर्थः । पालने हेतुमाह यावन्मतितावच्छ्तावस्थितेश्च । गुर्वादिगृहीतं सच्छुतज्ञानं परविर्तन-चिन्तनद्वारेण मत्यैव पाल्यते स्थिरीक्रियते भत्यभावे तद्गृहीतमपि प्रणायेदेव, यदाह भाष्यकार:-"पुरिजइ पाविजइ, दिजइ वा जं मईए नाऽमइणा | पालिलइ य मईए, गहियं इहरा पणस्सेजा॥१०६॥" । इति । तथा च यावत्कालमवि‘मृत्यनुकूलपरावर्तन चिन्तनलक्षण-धारणाच्यापाररूपमतिज्ञानं तावत्कालं श्रुतज्ञानावस्थितेरित्यर्थः । श्रुतज्ञानं परोक्षं परोपदेशजत्वात् परार्थानुमानवदित्यनुमानेनापि श्रुतज्ञानस्य परोक्षत्वमित्यत्र हेत्वर्थमाह परोपदेशस्तीर्थकरादिवचनम्, तज्जत्वाच्चेति । नन्वन ...