________________
। १६८ : तपार्थविवरणागूढार्थदीपिका । ए० सू० टी० दिनादित्वान् यदिति व्युत्पत्तिरपि विवक्षावशा न्नासंभविता, उक्तविवक्षया द्वयोरपि तदर्थान्वयात् , तदाहआधे मिश्रामाण्यात प्रथमद्वितीये शास्ति, सूत्रक्रमो मतिश्रुतेत्यादिसूत्रस्थोच्चारणानुपूर्वी .. तत्प्रामाण्यं तदवाधितत्व तस्मात्तदाश्रित्य तद्विवक्षयेत्यर्थः, प्रथमद्वितीये आभिनिवोधिकश्रुते शास्त्युपदिगानि ग्रन्थकार. सूत्र कारभाष्यकारपायमेदादित्थमुक्ति । मतिश्रुतयोः परोक्षत्वे हेतुं आते । कुत इति, ' उत्तरमाह-निमित्तापेक्षत्वादिति । भतिश्रुते परोक्षे निमित्तापेक्षत्वाद् धूमादग्निज्ञानवदिति प्रयोगः । अवविज्ञानमनःपर्याययोरान्तर क्षयोपशमम् , केवलस्य चावरणक्षयम् , त्रयाणामपि बाह्यं च विषय निमित्तमपेक्ष्योत्पद्यमानत्वाद् व्यभिचारमाशय निमित्तापेक्षत्वादिति हेतोरिन्द्रियांपेक्षत्वादित्यर्थ. फत०५ इत्यभिप्रायबानाह । अपायसद्य तया मतिज्ञान, धर्मित्वेनोपात्तं यन्मतिज्ञानं तदपायो निश्चय , मद्रयाणि च शुद्धढलिकानि तत्तया तद्भावन, सद्रव्यानुगतोऽपायो धमित्वनोपात्त इत्यर्थ. ।
धिकरणत्यम् , तत्पदेन मतिज्ञानम् , तत्क्षणः-आचक्षणः, तद्ध्वंसाधिकरणक्षणों द्वितीयक्षणः, तध्वंसस्याधिकरणं तृतीयक्षणादि, अनधिकरणं द्वितीयक्षण इत्र प्रथमक्षणोऽपीति तनिवारणाय तत्क्षणध्वंसाधिकरणत्वरूपविशेष्यदलम् , तथा च द्वितीयक्षण एव तदव्यवहितोत्तरक्षण इति तवृत्तिश्रुतज्ञान, तस्मिन्नावत्यस्योपचारो मतिज्ञानसदृशमलिका लक्षणेत्यर्थः । दिगादित्याद् दिगादिगणपठितत्वात् । दिशादिभ्यो यदिति सूत्रेण यत्प्रत्यये सति " यस्येति च” इति सूत्रेणेकारलोपे आचं सिद्धं भवति । उक्तविवक्षया-विभज्यमानेत्यादिविवःया । द्वयोरपिमतिज्ञानश्रुतज्ञानयोरपि । तदर्थान्वयात् आधशदार्थस्य घटमानत्वात् । ननु य एव भूलकास एवं भाष्यकार इत्युपदिशतीत्यर्थशास्तीत्ययुक्तमुक्तं, परात्मन्येव तथाप्रयोमादित्याशङ्कायामाह- - सूत्रकारभाष्यकारपर्यायभेदादित्यमुतिरिति- ' तथा 'च भावकारपर्यायापेक्षया सूत्रकारपर्यायस्य परत्वात्तत्र शास्तीति प्रयोगो युक्त एवेति । ननु मतिज्ञानश्रुतज्ञाने परोक्षप्रमाणे निमित्तापेक्षवादित्यनुमान मतिज्ञानं परोक्षं निमित्तापेक्षत्वात् , श्रुतज्ञानं परोक्षं निमित्तापेक्षत्वादित्येवं रूपं पर्यवस्यति । तत्र मतिज्ञानत्वरूपपक्षतावच्छेदकावच्छेदेन साध्यत्वेऽवग्रहयोरपि मतित्वेन तद्र पपक्षकदेशे मिथ्यादृष्टयपाये च-परोक्षप्रमाणत्वाभावनिश्चयात् सामानाधिकरण्येन पावनिश्चयरूपस्य तस्यावच्छेदकावच्छेदनानुमिति प्रति प्रतिबन्धकायेन मतिज्ञानं परोक्षप्रमाणमित्यनुमितिर्न स्थादित्याशङ्काया पक्षविशेषणमाह-अपायसद्य तया मतिज्ञानमिति-न सर्वेव मतिः पक्षीक्रियते, किन्तु सद्रव्यानुगतापायत्वविशिष्टैव, तत्र च परोक्षप्रमाणत्वसाध्यं विद्यत एवेति नोक्तसामानाधिकरज्येन बाधः । यथा सत् गुणवत् क्रियायवाद् यादिवदित्यनुमाने समावच्छेदेन गुणवत्व । साध्ये पक्षकदेशे गुणे कर्मणि च गुणवत्वसाध्याभावनिश्चयात्तस्य चाबच्छेदकावच्छेदेनानु. मितिप्रतिवन्धकरवात -पक्षतावच्छेदकावच्छेदनानुमितिौदेतीति सद्रपपक्षे गुणकर्मान्यत्वे सतीति विशेषणप्रक्षेप यथा निरुक्तबाधो न भवतीति तत्रानुमितिनिरावाधा तथा प्रकृतेऽपीति