________________
तत्वाविवरणमूढार्थदीविका । न० सू० टी०
: १८३ सम्यग्दर्शने या निर्देशादियोजना कृता सा ज्ञानादिवपि कार्यत्यतिदिशति-एवमिति ॥ ८ ॥ सम्यग्दर्शन પરિસમાપ્ય જ્ઞાનં વનતુમવસરગતિ પ્રવચન્નહિ-સમ્યગ્દર્શન, જ્ઞાન વી. મિત્યનેન प्रतिबन्धकजिज्ञासापरामः, वक्ष्याम इत्यनेन पावश्यवा०यत्वं प्रकाशत इति जातमवसरसंगतिशरीरम् ।।
सूत्रम् मतिश्रुतावधिमनःपर्याय केवलानि ज्ञानम् ॥१॥९॥ (भाष्यम्)मतिज्ञानं श्रुतशानं अवधिनानं मन पर्यायज्ञान केवलज्ञानमित्येतन्मूलविधानतः पञ्चविधं ज्ञानम् । प्रमेवास्त्वस्य पुरस्तावक्ष्यन्ते ।। ।
। (यशो० टीका) न पञ्चभि. संभूयक जानमवग्रहादिचतुभिरिव भवतीति सूचनाय केवलानीति पहुवचन, ज्ञानमित्यत्रैकवचनं तु प्रतिज्ञानुरूपत्वात् प्रतिवचनस्य । लक्षणानि चैवं बोध्यानि । द्विषयकजिज्ञासारूपप्रतिवन्धकवलेन न तदुत्तरं ज्ञाननिरूपणं कर्तुं शक्य, तन्निरूपणसमाप्ती चोक्तजिज्ञासारूपप्रतिबन्धकविगमेनातः परं किं वक्तव्यमिति जिज्ञासया तदनन्तरोवित्वेन क्रमायातज्ञाननिरूपणासरः प्राप्त एवेत्यक्सरसङ्गति सङ्गमयन्नाह सम्याद
शनं परिसमाप्येत्यादि । अवसरब १०यत्वमिनि-तल्लक्षणावसरसङ्गतिमित्यर्थः । अनेन नवमसूत्रस्यामसूत्रेण सहा सम्बद्धवारका निरस्तेति ।
नवमसूत्रव्याख्या
अवग्रहावायधारणाः १ । १५ । इत्यग्रिमसूत्रस्थावग्रहावायधारणात्मकभेद चतुझ्यशाल्यक मतिज्ञानमित्येवं यथार्थस्तथा मतिश्रुतेत्यादि सूत्रस्य मतिश्रुतावधिमनःपर्यायकेवलात्मकभेदपञ्चकशाल्येकं ज्ञानमिति नार्थः कर्तव्यः, किन्तूक्तमेद पञ्चकेन ज्ञानं पञ्चविधमेवेति सूचनाय केवलानीति बहुवचनमित्याह-न पञ्चभिः सम्भूयकमिति । अत ५५ भाष्ये एकैकं ज्ञानं विभिन्नभेवेति प्रख्यापनाय प्रोक्तम्-मतिज्ञानं श्रुतज्ञानमित्यादि । नन्वेवं तर्हि ज्ञानस्य पञ्चप्रकार पाहुस्वेन ज्ञानानीत्येवं बहुवचनत्यापत्तिरित्याशङ्कायामाह ज्ञानमित्यत्रैकवचनं त्वित्यादि । नं च ' ज्ञानं वक्ष्यामः" इति प्रतिज्ञामनुसृत्य विशेष्यवाचकज्ञानपदोत्तरमकवाचनमभ्युपगत स्यात्तदा विशेषणवाचकमतिश्रुतावधिमनःपर्यायकेवलपदोत्तरमप्येकवचनमेव स्यात्, न हि. फोऽपि व्युत्पन्नो नीलपतिरक्ता घट इति प्रयुडो, विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमादिति वाच्यम्, प्रकृते विशेषणवाचकपदोत्तर विभक्त्या विशेष्यपाँचकपदोत्तरविभक्तितात्पर्यविषयकत्वसङ्खयाविरुद्धाया वहुत्वसङ्खयाया विवक्षितत्वात् , नीलत्यादिप्रयोगे तु तदभावात् , तथा चाऽत्र यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविपयस ख्याविरुद्ध सख्याया अविवक्षित तत्र विशेष्यविशेषणवाचकपदयो समानवचनकत्वमिति नियममनुसृत्य बहुवचनमेव युक्तमिति भावः। अथ ज्ञानपदोत्तरसिप्रत्ययार्थस्यैकत्वस्य कुत्रान्वयः, न च समावायसम्बन्धेन ज्ञान इति वाच्यम् , मत्यादिभेदैस्तस्य बहुत्वात् । न च ज्ञानपजाताविति वाच्यम् , ज्ञानमित्यत्र ज्ञानत्वजातनुल्लिख्यमानत्वेन स्वरूपतो ज्ञान५६शक्यता पच्छेदकतयाऽन्वयितावच्छेदकरूपेणानुपस्थितस्तत्र सिप्रत्ययायकत्वस्य पदार्थान्तरस्यन्नियानुपपत्तेरिति चेत्, उच्यते. समाधिः, स्वाश्रयलचसम्बन्धेन सिरत्ययार्थस्यैकत्वस्य पदार्था