________________
तत्वार्थविवरण गूढार्थदीपिका । अ० स० टी०
: १७७ एकेन्द्रियेषु न पूर्वप्रतिपन्ना न प्रतियद्यमानकाः । द्वित्रिचतुरिन्द्रियेष्वसंज्ञिपञ्चेन्द्रियेषु च पूर्वप्रतिपन्ना भाज्याः सास्वादनसम्यक्त्वं प्रति, प्रतिपद्यमानास्तु न सन्त्येव । संज्ञिपञ्चेन्द्रियेषु द्वयमप्यस्ति । कायान् पृथिव्यादीनाश्रित्य सामान्येन द्वयमप्यस्ति । विशेषेण धरणिजलानलानिलस्यु द्वयं न सम्भवत्येव । द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेषु पूर्वप्रतिपन्नाः स्युन प्रतिपद्यमानाः । संज्ञिपञ्चेन्द्रियन सकाय द्वयमपि स्यात् । योगे मनोवाकायेषु सामान्येन द्वयमपि । काययोगमाजा पृथिव्यादीना तरूपर्यन्ताना न द्वयम् । क.यवानयोगयुजा द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां पूर्वप्रतिपन्नत्वमेव | मनोवाकाययोगयुजा द्वयम् । कषायेऽनन्तानुवनन्तरं शुद्धसम्यक्त्वपुजपुदलान् वेदयतस्तस्यापि क्षायोपशमिकं सम्यक्त्यमबाप्यते, मनुष्यतिर्यग्भ्यो वा यः क्षायोपशमिकसम्यग्दृष्टिनरिकेपुत्पद्यते तस्यैतत्पारभविकं लभ्यते, विराधितसम्यक्त्वो हि षष्ठीपृथिवीं यावद् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्थिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्थङ्मनुष्यो वा बान्तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेनेति, यदा पुनः कश्चिन्मनुष्यो नारयोग्यमायुर्वन्धं विधाय पश्चा•
क्षपकश्रेणिमारमते, पद्धायुकत्याच तां न समापयति, केवलं दर्शनसतकक्षपयित्या क्षाविकं सम्यक्त्वमवाप्नोति, ततश्च मनुवायुःक्षयसमये मृत्वा नारकपूयते तदाऽऽयपृथिवीजयनारकाणां पारभविक क्षायिकं सम्यक्त्वमवाप्यते, न तु ताझविकं, मनुष्यस्यैव तद्भवे क्षायिकसम्यक्त्वा मत्यादिति । तथा “ वेमाणियदेवाणं " वैमानिकदेवानां " पणिदितिरियाणति " व्याख्यानतो विशेषप्रतिपत्तिन्यायेन पञ्चेन्द्रियाणां मनुष्याणां तिरश्चां वा त्रीण्यपि सम्यक्त्वानि भवन्तीत्यर्थः । विशेपार्थस्तु तत एवावसेयः । नन्विन्द्रियद्वारे पञ्चेन्द्रियजीवा अप्यागता इत्यत सामान्येन पूर्वपतिपन्नाः प्रतिपयमानाश्च भवन्तु, पृथिवीकायायेकेन्द्रियेषु किमुभयरूपासन्ति न वेत्याशङ्कायां " उभयाभावो पुढवाइएसु" इति " उभयाभावो एगिदिएसु सम्मतलद्धीए" इति चागमवचनमनुसृत्याह-एकेन्द्रियेषु नेत्यादि । सास्वादनसम्यक्त्वयुक्तस्यापि पृथिव्यादिपुत्पादाभावात्सायक्त्वप्रतिपत्यभावाचेति भावः । एतदपि सैद्धान्तिकमतेन, यदुक्तं प्रज्ञापनायां " पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो सम्मविट्ठी मिच्छादिही नो समामिच्छादिही, एवं जाव वण कइकाइया " इति । कार्मग्रन्यिकास्तु लब्धिपर्याप्तवादर पृथिव्यवनस्पतीन् करणाऽपर्याप्तान् पूर्वप्रतिपन्नानिच्छन्ति, पारभविकसास्वादनसम्यक्त्ववतस्तेपुत्पत्तः, तन्मतेनैकेन्द्रियेषु पूर्वप्रतिपन्नासन्ति न तु प्रतिपद्यमानका इति । द्वीन्द्रियाघसंज्ञिपञ्चेन्द्रियान्तजीवेषु ये केचित्सास्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति, त एवाऽपर्याप्तावस्थायां पूर्वप्रतिपतिमङ्गीकृत्योभयमतेन स्युः सम्यग्दर्शनस्य पूर्वप्रतिपन्नाः, उक्तञ्च-" विगलेसु होज उपवनो" इति । सम्यग्दर्शनस्य प्रतिपद्यमानकास्तु न भवन्त्येव, तेषां तथाविधविशुध्ध्यभावादित्याशयेनाह द्वित्रिचतुरिन्द्रियेष्वसंज्ञिपश्चेन्द्रियब्धित्यादि । द्वयं न स भवत्येवेति च पूर्वत्रज्ञेयमिति । कपायेऽनन्तानुवन्धिनामुदथे