________________
: १६८ : तत्वार्थविवरणदार्थदीपिका । स० सू० टी० रूचिरुपजायते; क्षयोपशमस्य द्रव्यादिपञ्चकसव्यपेक्षत्वात् , तदा तस्य बहिरवस्थितस्य साधारुत्पादयितुः सा रुचिः, कुम्भ इव कुम्भकारस्य । न च यथेष्टविनियोक्तृनिष्ठमेव स्वामित्वमिति कथमतदेवमिति शनीयम् , भुक्तिस्वामित्वाधिकार एव तथोक्तेः, अयं तूत्पत्तिस्वामित्वविचार इति।। एवमेकमजीवाख्यं पदार्थ प्रतिमादिकं प्रतीत्य यदा क्षयोपशमः सजायते, तदा तस्यैवाजीवस्य सम्यग्दर्शनं नात्मन इति । न चाजीवे स्वामित्वव्यवहारो बुद्धिरचितत्वादपारमार्थिकः,
द्रव्यादिपञ्चकमध्यपेक्षत्वादिति-द्रव्यक्षेत्रकालभावमवनिमित्तवादित्यर्थः । उक्तञ्च'उदयक्खयक्खओवसमोवसमा इत्थ कम्मुगो भणिया। दव्यं खित्तं कालं, भावं च भवं च संप५ । १।' इति । झुम्भ इव कुम्भकारस्येति यद्यपि घटो मृद एक, तस्था एवोपादानकारणत्वात् , तथापि कुम्भकारस्थ निमित्तकारणत्वात्तस्यापि स तद्वदित्यर्थः । यथेसन्निविनियोगकर्तृनिष्ठमेवेष्टानस्वामित्वं, न तु पाचकनिष्ठं, यो यस्येश्स्य विनियोगकर्ता स एव तस्य स्वामी यथेष्टानस्य चैत्र इति व्याप्तेः, तथैव प्रकृतेऽपि भाव्यमित्याशङ्कय निषेधति-- न च यथेष्टविनियोक्तृनिष्ठ मेवेत्यादि । निपेथे हेतुमाह-सुरिस्वामित्वेत्यादि । अयं तूत्पत्तिस्वामित्वविचार इति-यदि साधुसमालम्बनं न स्यात्तदा जन्तोस्सम्यग्दशनं नोत्पन्नं स्यादिति साधुमालम्व्यैव सम्यग्दर्शनस्योत्पत्तेरुत्पाद निमित्तकारणविषया साधोरेव सम्यग्दर्शनस्वामित्वमिति भावः । समग्दर्शनं च यस्मिन्नात्मनि कश्चित्तादात्म्यसम्बन्धेनोत्पनं सद्वर्त्तते स एव आत्मा तत्स्वामीत्यजीवे स्वामित्वव्यवहारः काल्पनिकत्वान्न पारमार्थिक इति न च वाच्यमित्याह न चाजीवे स्वामित्वव्यवहार इत्यादि-- यद्यपि निश्चयनये जीवस्सम्यग्दर्शनज्ञानचारित्रस्वरूप इति गुणगुणिनोरभेद ' ५५, स यद्यपि सर्वदा तथा नोपलभ्यते तथापि विवेकसमाधिकाले तथोपलभ्यत एव, तदानीश्च जीवस्य सम्यग्दर्शनं स्वस्वरूपमेव, न चाभेदे स्वस्वामिभावः, न हि भवति राजा राज्ञ एव स्वामी, किन्तु स्वभिन्नानां पुरुषादीनामेव स इति स्माभिन्नस्य सम्यग्दर्शनस्य न भवति जीवस्स्थामीति, यदा यस्मिन् जीवे सम्यग्दर्शनमभिमतं सोऽपि जीयो द्रव्यत्वादाधारस्सयदर्शनञ्च गुणत्वादाधेय इति व्यवहारनयसमाश्रयणाझेद आश्रीयते तदैव तस्य भिन्नं सम्यग्दर्शनम्प्रति - स्वामित्वमुपचर्यत इति व्यवहारोपरचितभेदबुद्धिपरिकल्पितमेव सभवायिकारणतयाऽभिमतस्य जीवस्थाऽपि सम्यग्दर्शनस्वामित्वम् । भेदकल्पना त्थं-सम्यग्दर्शनज्ञानचारित्रैतत्रितयस्वरूपे जीवे यदा व्यवहारतो ज्ञानचारित्राभ्यां सम्यग्दर्शनस्य भेदो विवक्ष्यते तदा शानचारित्रस्वरूप आत्माऽऽधारः स्वामी च, सम्यग्दर्शनश्चाधेयम् , स्वञ्चेति, एवं सम्यग्दर्शनचारित्राभ्यां ज्ञानस्य यदा भेदो विवक्ष्यते तदा सम्यग्दर्शनचारित्रस्वरूप आत्मा आधार:-स्वामी. च, ज्ञानमायं स्वञ्चेति । एवं सम्यग्दर्शनशानाम्यां चारित्रस्य यदा भेदो विवक्ष्यते तदा सम्यग्दर्शनज्ञानखरूप आत्मा आधार स्वामी च, चारित्रं चाधेयं स्वञ्चेति । विवक्षा च पुरुषपरतना