________________
१६४ :
तत्त्वार्थविवरणगूढार्थदीपिका | स० सू० टी०
इति द्रव्यार्थनये उत्तरं द्रव्यमिति क्तप्रत्ययार्थाश्रयविवरणम्, अन्यथा विधेयप्राधान्येन युक्तमित्यापतेः, न च घर्मस्यैव विधेयता युक्ता, वह्निमानित्यत्र तादात्म्येन वह्निमत इव प्रकृते औपशमिकादिभावादिष्टद्रव्यस्य विधेयताया युक्तत्वात्, पर्यायार्थिकनये तु कर्तृप्रत्ययस्य भावपरत्वादपशमिकादिभावयोगो जीव इत्येवोत्तरं द्रष्टव्यम् । तन्मते पर्यायातिरिक्तजीवस्य वौद्धस्यैवानूद्यत्वात् । उभयनयावलम्बने तु न केवलं द्रव्यम्, नापि केवला भावाः, किन्तुमयात्मकं जीववस्तु प्रतिपत्तव्यम् । तथा च प्रकृतानुपूर्वीज्ञानस्य नियमत उमयविधविधेयताकशाब्दबोधहेतुत्वं कल्पनीयम् । इत्थं च प्रमाणं लक्ष्यं प्रमाकरणत्वं लक्षणमित्येकान्तनिर्धारणमयुक्तम्, प्रमाकरणं लक्षणमित्यस्यापि वक्तुं युक्तत्वात्, सकरपरिहारप्रकारश्च त्वस्योपशमिकादिभावात्मकगुणत्वस्य वा जीवलक्षणत्वसामान्यधर्मव्याप्यावान्तरधर्मरूपत्वेन तत्प्रकारकज्ञानविपयिणी जीवस्य किमुक्तद्रव्यरूपं किं वोक्तगुणरूपं लक्षणमित्या कारिका या जिज्ञासा तया को जीव इति प्रश्न इत्यर्थः । औपशमिकादिभावयुक्तो द्रव्यं जीव इति-अत्रौपशमिकादि मावयुक्तो जीव इति लक्ष्णवाक्यम्, તત્રૌપમિતિમાવયુ इति लक्षणनिर्देशः, जीव इति च लक्ष्यनिर्देश इति बोध्यम् । युक्त इत्यत्र प्रत्य यार्थ आश्रयः, स च द्रव्यमेवेति प्रतिपादयितुं द्रव्यमित्युक्तं, न तु तल्लक्षणघटक, तथा सति तस्य विधेयत्वेन तद्विशेषणतया युक्तमिति स्यात्, विशेष्ये पङ्गिं तद्विशेषणेऽपीतिन्यायात्, न तु युक्त इति स्यादित्याशयेनाह - द्रव्यमिति प्रत्ययार्थाश्रयविवरणमिति । न चेत्यस्य युक्तेत्यनेनान्वयः, धर्मस्यैवेति- औपशमिकादिभावस्यैवेत्यर्थः । निषेधे हेतुमाह हिमानित्यत्रेत्यादिना, कर्तृप्रत्ययस्य भावपरत्वादिति-युक्त इत्यत्र कर्त्तरि प्रत्ययस्य भावरूपार्थे विहितत्वादित्यर्थः । नतु पर्यायनये जीवस्यैवाऽभावेन कथमुद्देश्यत्वमित्याशङ्कायामाह तन्मत इत्यादि । बौद्धस्यैवान्यत्वादिति-बुद्धया कल्पितस्यालय विज्ञान सञ्ज्ञकस्य पूर्वापरज्ञानसन्तानरूपस्योदेश्यत्वादित्यर्थः । उभयनयाव लम्बने इति प्रमाणपर्यालोचनायामित्यर्थः । उभयात्मकमिति द्रव्योपशमिकादिभावरूपोभवात्मकमित्यर्थः । प्रमाणार्पणया द्रव्योपशमिकादिभावो भयात्मकं जीवाख्ययस्त्विति सिद्धौ को जीव इति प्रश्नोत्तरस्त्ररूयौपशमिकादि भावयुक्तो द्रव्यं जीव इति भाप्यवाक्यज्ञानस्योभयत्वनिष्प्रकार तानिरूपितद्रव्यत्वावच्छिन्नविशेष्यत्वाभिन्नप्रकारतानिरूपिता योभयत्वनिप्रकारतानिरूपितोपशमिकादिभावत्वावच्छिन्नविशेष्यत्वाऽभिन्न प्रकारतानिरूपिता जीवत्वावच्छिन्नविशे-'
तानिकदोषहेतुलं पर्यवस्यति, तत उक्तानुपूर्वीज्ञानेन द्रव्यनिष्प्रकारतानिरूपितले सत्योपशमिकादि भावनिष्ठाकारतानिरूपिता या जीवनिष्ठविशेष्यता तनिरूपकश्शाब्दबोधो भक्तीत्याशयेनाह तथाच प्रकृतानुपूर्वीनस्येत्यादि । इत्यं चेति-अभेदेऽप्युद्देश्यविधेभावस्वीकारे चेत्यर्थः । वक्तुं युक्तत्वादिति -प्रमाकरणत्वधर्मस्य स्वरूपसम्वन्धेन प्रमाणरूपलक्ष्यगतत्वाद्यया लक्षणत्वं तथा प्रमाकरणरूपधर्मिणोऽप्यभेदसम्वन्धेन प्रमाणरूपलक्ष्यमात्रे सच्चाह्मक्षणत्वं सम्भवतीति भावः । सङ्कर परिहारमकारश्चेत्यादि, यथा पृथिव्याः पृथिवीत्व