________________
: १६२ :
तपार्थविवरण गूढार्थदीपिका । स० स० टी० त्मकत्वावधारणं नय इति भतेऽप्यनेकान्तप्रतिपत्तिमत आसत्तिपावाभ्यासप्रयोजनार्थित्वान्यतरेणैकधर्मावधारणे न नयत्वम्, किन्पपेक्षयकधविधारण इति प्रमिणोमि नयामीत्यनुभवसाक्षिको विषयताविशेषः प्रमाणनयभेदकोऽवश्यमभ्युपगन्तव्य इति दिक् ॥ ६ ॥ इति-प्रमातरीति शेषः, एतेनैकान्तप्रतिपत्तिमतः पुंसोयदेकधर्मावधारणं तद् दुर्नय एवेत्यावेदितम्, अपेक्षयैकधविधारण स्यावादिन एवेति नयलक्षणे स्वनिमित्तापेक्षाप्रवेशस्थाऽवश्यकत्ये अनन्तधर्मात्मकत्वप्रतिपत्तिविशिष्टे इत्यस्य लक्षणे प्रवेशस्य नावश्यकतत्याशयेन मतेऽपीत्युक्तम् , आलत्तिपास्वाभ्यासति तत्र पदद्वयादीनामव्यवधानमासत्तिः। कर्मक्षयोपशमविशेषजन्यनिपुणताविशेषः पाटयम् , अभ्यासः पुनः पुनरावर्तनमित्यर्थः । अपि च प्रमिणोमि नयामीत्यनुभवसिद्धविषयताविशेषस्यविश्यकत्वे स एव प्रमाणनयभेदकः, लाववादित्याह । प्रमिणोमीति-प्रमिणोमीत्यनुभवसिद्धो विषयताविशेषो प्रमाणस्य लक्षणम् , नयामीत्यनुभवसिद्धो विषयताविशेषो नयस्य लक्षणं, तल्लक्षणभेदालक्ष्यीभूतप्रमाणनयभेद इति भावः ॥६॥
किं चान्यदित्यनेनोत्तरसूत्र सम्बन्धयति । नैतापतेव विस्तराधिगमस्तत्त्वाना, यतोऽन्यदपि विस्तराधिगतौ कारणमस्ति, किं तत् ? निर्देशादि, के पुननिर्देशादय इत्यत आह
सूत्रम् निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ १॥७॥
(भाग्य) एभिश्च निर्देशादिभिः पइभिरनुयोगद्वारेः सर्वेषां भावानां जीवादीनां विकल्पशो विस्तरेणाधिनमो भवति । तद्यथा-निर्देशः को जीवः ? औपशामिकादिभावयुक्तो द्रव्य जीवः । सम्यग्दर्शनपरीक्षायां किं सम्यग्दर्शनं द्रव्यम्, सम्यग्दृष्टिजीवोऽरूपी नो स्कन्धो नो ग्रामः ॥ स्वामित्व-कस्य सम्यग्दर्शनमित्येतदात्मसंयोगेन परसंयोगनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेन जीवस्याजीवस्य जीवयोरजीवयोजीवानामजीवानामिति विकल्पाः । उभयसंयोगेन जीवस्य नोजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति, शेषाः सन्ति ! साधन-सम्यग्दर्शनं केन भवति ? | निसर्गादधिः गमाद्वा भवतीत्युक्तम्। तत्र निसर्ग: पूर्वोका। अधिगमस्तु सम्यगव्यायामः। उभयमपि तदावरणीयस्य कर्मणः क्षयेणापशमेन क्षयोपशमाभ्यामिति ॥ अधिकरणं त्रिविधं आत्मसन्निधानेन परसनिधाननाभयसन्निधानेनति वाच्यम् । आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थ । परसन्निधान वाहसन्निधानमित्यर्थः । उभयसन्निधान पाह्याभ्यन्तरसन्निधानमित्यर्थः । कस्मिन्सम्यग्दर्शनआत्मसन्निधाने तावत् जीवे सम्पदर्शन जीवे ज्ञानं जीवे चारित्रमित्येतदादि । बाह्यसन्निधाने जीवे सम्यग्दर्शन नाजीव सम्यग्दर्शन मिति यथोक्ता विकल्पाः । उभयसनिधाने चाप्यभूताः सद्भूताश्च यथोक्का भङ्गविकल्पा इति ॥ स्थिति:-सम्यग्दर्शन कियन्त कालम् । सम्पादृष्टिद्विविधा-सादिः सपर्यवसाना सादिपर्यवसाना च । सादिसपर्यवसानमेव च सम्यग्दर्शनम् । तजयन्येनान्तर्मुहर्त टेन पदूषष्टिः सागरोपमाणि साधिकानि । सम्यग्दृष्टि. सादिरपर्यवसाना । सयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चेति ॥ विधान हेतुविध्यात् क्षयादित्रिविधं सम्यग्दर्शनम् । तदावरणीयस्य कर्मणा दर्शनाहनीयस्य च क्षयादिभ्यः । तद्यथा-क्षयसम्यग्दर्शनम्, उपशमसम्यग्दर्शनम् , अयोपशमसम्यग्दर्शन मिति । अत्र चौपशमिकक्षायोपशमिकक्षायिकाणां परतः परतो विशुद्धिप्रकर्षः ॥ किचायत ।