________________
तत्त्वार्थविवरणगूढार्थदीपिका । प० सू० टी०
: १६१ :
प्रमाणांशस्तथा नयः ॥ २ ॥ " इत्यादि । यद्येवं भ्रमप्रमासंशयसमुन्वयव्यावृत्तं नयज्ञानं तदा कथं तत्र शब्दप्रमाणान्वयव्यतिरेकानुविधायित्वमिति चेत्, न, तथात्वेऽपि तत्त्वमस्यादिवाक्यजन्यज्ञाने वेदान्तिनाभित्र व्यञ्जनावृत्तिजन्यज्ञाने चालङ्कारिकाणामिव तात्पर्यवैचित्र्येण वैचित्र्यस्याप्रत्यूहत्वात् शाब्दत्वजात्यनतिक्रमेऽपि च श्रुतचिन्ताभावनाज्ञानानां शब्दस्य दीर्घदीर्घतव्यापारेणावान्तरजातिवैचित्र्यं शास्त्रसिद्धमेव, शब्दजप्रत्यक्ष इव वा शब्दजन्यज्ञाने वैचित्र्यं भावनीयम् । अनन्तधर्मात्मकत्वप्रतिपत्तिविशिष्टे एकधर्माकारकज्ञाने सत्येव भवति, न च कोऽपि नयस्तयाकारः, येन प्रमाणं स्यादिति भावः । नन्त्रप्रमाणनिषेधे नयः प्रमाणमेव स्थात्, “द्वौ नत्रौ प्रकृतं गमयतः" इति न्यायात् प्रमाणनिषेधे नयोप्रमाणं स्यात् परस्परविरोधे हि न प्रकारान्तरस्थितिरिति न्यायाद्, गत्यन्तराभावात् ) सकृदेकस्य प्रमाणत्वाप्रमाणत्वोभयनिषेधाऽसम्भवादित्याशङ्कायां गत्यन्तरमाह - प्रमाणांशस्तथा नय इति । एतच्चाग्रे विवेचयिष्यते । ननूक्तदिशा भ्रमाद्यनात्मकस्य नयस्य प्रमाणतो भेदाभ्युपगमे शब्दजन्यशाब्दबोधात्मकप्रमाणभिन्नत्वमपि तस्येति शाब्दप्रमाणभिन्नस्य तस्य शब्दान्त्रयव्यतिरेकानुविधायित्वमपि न स्यात्, तजन्यतावच्छेदकवैजात्याभाववति तदन्वयव्यतिरेकानुवि घाविवस्यान्यत्रादृटेरित्याशयेन शङ्कते यद्येवमिति, लौकिकवाक्यतः परोक्षात्मकमेवोपजायते शाब्दज्ञानमिति तादृशज्ञानवृत्तिवै जात्यशून्यमपि निर्विकल्पका साक्षात्कारस्वरूपं ज्ञानं तत्वमस्यादिवाक्यतो यथा वेदान्तिनाम्मते जायते यथा वालङ्कारिकाणां मते विभावानुभावसश्चारिभिरभिव्यञ्जकै सहकृतेन शब्देन व्यञ्जनावृच्त्याऽखण्डानन्दब्रह्माकारवृत्ति सहोदरः स्थायि - भानावबोधो लौकिकप्रमाणादिव्यतिरिक्त एव जायते, शब्दजन्यत्वेऽपि तत्र यथा विचित्रतात्पयदिघटितसामग्री प्रयोज्यं वैजात्यं, तथा प्रमाणनययोः शाब्दत्वाविशेषेऽपि तद्वान्तरं वै जात्यं स्यादेवेति समाधत्ते नेति । तथात्वेऽपि भ्रमप्रमासंशयादि भिन्नत्येऽपि । ननु प्रमाणनययोः शाब्दत्वाविशेषे कथमुक्तवैचित्र्यमन्यत्रादृष्टमभ्युपेयमित्यत आह शाब्दत्वजात्यनतिक्रमेऽपि चेति | शब्दात्प्रथमतश्रुतज्ञानं यथा श्रुतार्थानुमारि समुत्पद्यते तदनन्तरं चिन्वाज्ञानं ततो विशिष्टभावनया भावनाज्ञानं तेषां यथा शाब्दत्वाऽविशेषेऽपि तदवान्तरवैचित्र्यं शास्त्रप्रसिद्धं नापलपितुं शक्यं शृणोमि चिन्तयामि भावयामीति विचित्रानुभवात्, तथा प्रकृतेऽपीत्याशयः । यथा वेदान्तिमते इन्द्रियजप्रत्यक्षे घटमहं जानामीत्यादौ घटत्यादिवैशिष्ट्यावगाहित्वेन सविकल्पकत्वमेव, तच्चमसीत्यादिशब्दजप्रत्यक्षे च सर्वज्ञत्वादिविशि-ચૈતન્યવાનતત્પદ વ્યાપજ્ઞāાવિવિશિષ્ટ ચૈતન્યવાષચંષતસ્યો વિશેષળાવનિનું ચૈતન્યમાત્રે तात्पर्यसच्चेन लक्षणया तन्मात्रस्यैवोक्तवाक्येन संसर्गानवगाहिबोधान्निर्विकल्पकत्वमेवेति वैचित्र्यं तथा शब्द जज्ञानेऽपि विभिन्नसामग्रीप्रयोज्यं नयत्यप्रमाणत्ववैचित्र्यं नानुपपन्नमित्याह-शब्दप्रत्यक्ष इव वेति । सनिमित्तापेक्षयैकयमविधारण एव नयत्वं न त्वकधर्माविधारणमात्रे, अपेक्षामन्तरेणैकधर्माविचारणे दुर्नयत्वस्यैव भावादित्याह
२१