________________
: ६५४ :
तत्त्वार्थविवरण गूढार्थदीपिका | पं० सू० टी०
तार्थपाकरणाच्च निक्षेपस्य फलवत्त्वेन प्रधानाङ्गत्वात्तन्निक्षेपस्त्वानिष्टा (ष्ठा) वह त्वात् प्रतिषिध्यते, लक्षणलक्षणादिवत् क्लेशमात्र फलत्वादित्याशयात् ॥ ५ ॥
निक्षेपस्य फलवत्वेन प्रधानाङ्गत्वादिति-प्रकरणवशेनाप्रकृतनिराकरणद्वारा यथास्थान विनियोजनेन तच्चभूतप्रकृतार्थनिश्चयफलकत्वेन भावनिक्षेपस्य तच्चाधिगमे प्रधानाङ्गत्वात् सोऽस्युपगन्तव्य इत्यर्थः । ननु भावनिक्षेपस्य भावस्वभावतच्चाविगमोपायत्वेन प्रधानत्वमतो भावनिक्षेपः कार्यो भवति, निक्षिप्यमाणो भाव एवोपादेयो, न तु निक्षिप्यमाणा नामादयस्त्रय इत्यप्रस्तुतार्थायाकरणाय नामनिक्षेपादयोऽपि निरूपणीया भवन्ति, एवं तचत्स्वरूपनिष्टकनं तनिक्षेपत इति भावस्वरूपनिष्टङ्कनाय यथा भावनिक्षेपः क्रियते एवं नामादिस्वरूपनिष्टङ्कनाथ नामनिक्षेपादयो यथा क्रियन्ते तथा भावनिक्षेप स्वरूपनिष्टङ्कनाय भावनिक्षेप निक्षेपोऽपि नामनिक्षेपादिचतुष्टय रूपेण सम्भवीति करणीयः स्वात् एवं नामनिक्षेप निक्षेपादयोऽपि कर जीयाः स्युः, यथा चानिक्षिप्ते भावादौ तत्स्त्ररूपपरिज्ञानं न सम्यक् सम्भवति, तथाऽनिक्षिप्ते भावनिक्षेपादों भावनिक्षेपादिस्वरूपपरिज्ञानमपि न सम्भवत्येव, तनिक्षेपमन्तरेण तत्परिज्ञाने वा भावनिक्षेपादिकमन्तरेणापि भावादिपरिज्ञानसम्भवाद् भावनिक्षेपादयोऽव्यकरणीयास्स्युरित्यत आह तन्निक्षेपस्त्विति-भावनिक्षेपनिक्षेपः पुनरित्यर्थः अस्य प्रतिषिध्यते इत्यनेनान्वयः, तत्र हेतुः अनिष्ठावहत्वादिति-निष्ठा - विश्रान्तिस्तदद्भावोऽनिष्ठा, अविश्रान्तिः अनवस्थेति यावत्, तदात्वात् अनवस्थापादकत्वादित्यर्थः । यदि भावनिक्षेपस्य निक्षेपः क्रियते तक्तयुक्त्या भावनिक्षेप निक्षेपस्याऽपि निक्षेपः करणीयः एवं तनिक्षेपोऽपि करणीयरस्यादित्येवमनवस्थांनाभिक्षेप निक्षेपो निषिध्यत इत्यर्थः । अत्रानुरूपं दृष्टान्तमाह-दक्षण लक्षणादिवदिति । यथा पृथिव्यादिलक्ष्यस्वरूपविज्ञानाय तल्लक्षणं क्रियते तल्लक्षणस्यापि लक्ष्यत्वेन तत्स्वरूपविज्ञानाय लक्षणलक्षणमपि करणीयम् एवं तल्लक्षणमपीत्येवमनवस्थानाद्यथा लक्षणलक्षणादिकं न करणीयं तथेत्यर्थः भवत्वनवस्था तथापि लक्षणलक्षणं किमिति न क्रियते इत्यत आह क्लेशमात्रेति । अनिष्टावहत्वादिति पाठे त्वनवस्थारूपानिष्टापादकत्वादित्यर्थः । अन्त्रेदमप्यवधेयम् - नानार्थक शब्द स्थळे प्रकरणमपि शक्तिग्राहकम्, यथाहि सैन्धवपदं लवणेऽश्वे चेति कोशेन लवणाश्वात्मकार्थद्वये तस्य शक्तिर्व्युत्पादिताऽस्तीति सैन्धवमानयेत्यादौ सैन्धचपदाद् भोजनप्रकरणे सति तत्सहकारादश्वात्मकामस्तुतार्थनिराकरणेन लवणात्मकप्रस्तुतार्थावगतिः, तथा प्रशस्तभावसम्बन्धिनां सर्वेषां निक्षेपाणां तु प्रशस्तत्वमेव निर्व्यूढमित्युत्तर देतां भग वतां भावनिक्षेपस्य प्रशस्ततथा तन्नामादिनिक्षेपचतुष्टयमपि प्रशस्तमिति प्रणिवातृ शुभभावजननद्वारा निर्जराकारणत्वेन परमश्रेयोर्थिमिस्स्तुत्यर्हमिति नामात् स्थापनाई - द्रव्याहेतू - भावार्हनिक्षेपार्य कार्हस्पद । तच्छक्यार्थोपस्थितिद्वारा नामस्तवाधिकारप्रकरणवशात् प्रधानतया नामानिक्षेपावगतिरिति प्रस्तुतं नामान्तमुद्दिश्यैव "लोगरस उज्जोअगरे" इत्यादी तत्स्तुतिबिंधीयते, “चोबीसत्यएणं दंसणविसोहिं जणयः" इति सिद्धान्तोक्त्या चतुर्विंशतिस्तवाराश्यताविज्ञैः
ܐ