________________
: १५३ :
तत्वार्थविवरणपूढार्थदीपिका । पं० सू० टी० भावतो व्यमित्येकवनोदिश्य भावतो द्रव्याणीति बहुत्वेन निर्दिशतोऽयमभिप्रायः, बहून्येतानि वन एव सत्ता दधति, न त्वेकमधिष्ठान परमार्थसत्यमन्यानि च संवृतिसन्तीति, सगुणपर्यायाणीति गन्याद्यगुरुलधुप्रभृतिपर्यायभाजि । म्यादेतद् यद् येन धर्मेण समन्वितं तत्तं धर्म न जातु जहाति तेनैव सदान्वितमात इत्येतदपि नास्तीत्याह-प्राप्तिलक्षणानि परिणामलक्षणानि अन्यान्यान् धर्मान् प्रतिपद्यन्त इति, जीवातावदेवमनुजादीन् , पुद्गलाः कृष्णादीन् , धर्मादयः पुनस्त्रयः परतोऽन्यान्यधर्मान् प्राप्नुवन्त्येव । यतोऽन्यस्मिन् गच्छति तिष्ठत्यवगाहमाने वा जीवे पुद्गले वा गमनादिपरिणामम्तेषामुपचर्यत इति । स्यादत्राशङ्का यद्येवं धर्मादीनामुपचरिता प्राप्तिः, जीवपुद्गलयोश्चानुपचारिता, तदा पुद्गलबजीवन्यापि कथं न द्रव्यद्रव्यत्वम्, विजातीययपर्यायप्राप्तेम्तस्यापि भावादिति, मैवम् , मनुप्यादिपर्याय
जीवपुद्गलयोरुभयोव्यापारेऽपि द्रव्यभावनिवन्धनस्नेह प्रत्ययपरिणामाभावेनाकाशवदात्मन उदासीनत्वादिति । - .......... . .. . ..
___ खत एवेति-अनेन न त्वनिरिक्तसत्तायोगान्सत्तां द्रव्याणि दधतीत्युक्तं भवति, यतसत्ताया स्वरूपात्मकसत्तायोगात् सदूपत्वे भावानामपि तथैवास्तु, अतिरिक्तसत्तायोगात् सद्पत्येऽनवस्थादोपप्रसङ्ग इति भावः । पुरुष एवेदं सर्व यद् भृतं यच्च भाव्यमित्यादिश्रुतिमालवमानानां वेदान्तिनां नीव सद्रूपं मायाद्वारा निमित्त कारणं सहुपादानकारणं जगतः, न त नैयायिकानामिवश्वरामिन ब्रह्म निमित्तकारणमात्रम् , तत्कार्यन्तु घटपटादिकमसद्रियम् , अवियोपकल्पितत्वादित्यादि यन्मत तन्निरसनाथाह-न त्वेकमधिष्ठानमित्यादि । तन्निरासश्चैवम्-अविधोपकल्पितत्वहेतुस्सन् असन् वा, आये तापातो द्वितीय न बसता हेतुना जगतोऽसत्यसिद्धिः, अधिकं गौरवभीत्या यदव नोक्तं तदस्मद्दधसम्मतितर्कमहार्णवावतारिकातोअसेयम् । भाष्योक्तस्य सगुणपर्यायाणीत्यस्यार्यमाह-गत्यायेत्यादि । प्रातिलक्षणानीत्यस्यार्थमाह-परिणामलक्षणानीलि। तस्याप्यर्थमाह-अन्यान्यानिति । तेषामुपचर्यत इनि जीवपुद्रलयोरेव मुख्यवृत्या गमनादिपरिणामः, स एव धर्मास्तिकायादिघूपचयेत इत्यर्थः । तत्तजीवतत्तत्पुरलगतो यो गमनपरिणामस्तदुपग्रहकारित्वस्वभावो धर्मास्तिकाये स्यितिपरिणामस्तदुपग्रहकारित्वस्वभावोऽधर्मास्तिकायेवगाहनापरिणामस्तदुपग्रहकारित्वस्वभाव आकाशास्तिकाये परापेक्ष इत्यत उपचर्यत इत्युच्यत इति भावः । कथं न द्रव्यद्रव्यत्वमिति-द्रव्यात्मककार्योपादानकारणत्वं जीवनिष्ठं कथं नेत्यर्थः । तत्र हेतुमाह- विजातीयद्रव्यपर्यायास्तस्यापि भावादिति द्रव्यविजातीयपर्यायप्राः पूर्वदेवादिपर्यायत्यागेनोत्पधमानोत्तरमनुष्यादिपर्यायपरिणामरूपाया जीवस्यापि भावादित्यर्थः । द्रव्यभावनिबन्ध नस्नेहप्रत्ययपरिणामाभावेनेति-द्रव्यभावो द्रव्यात्मक कार्यता तन्निवन्धनं तत्कारण स्नेहप्रत्येयपरिणाम रहाधीनपरिणामः, तस्याभावेनेत्यर्थः । द्रव्यरूपकार्यकारणीभूतस्नेहाधीनपरिणामः पुद्गलद्रव्य एवं वर्तते, न तु जीवद्रव्य इति तस्याकाशवदासीनत्वानदूव्यदूपत्वमिति भावः। कर्मसाधनत्वपक्षे भूमाताविति चौरादिकभूधापाकल्पिक्रणिप्रकृतिवया