________________
तरवार्थविवरणपूढार्थदीपिका । पं० सू० टी०
१४९ : रणसधातविशेषाभावात् , सर्वत्र परमाणुपर्यन्तभेदेन परमाणुद्वयादिसंयोगाद् धणुकाधुत्पत्तिकरपने महागौस्वात् । उत्पत्तेः प्रा भेदाश्रयस्य सिद्धयसिद्धिव्यापाताझेदस्य न प्रयजनकत्वमिति चेत्, न, भेदत स्वाश्रये तादात्म्येन विशिष्टद्रव्योत्पादहेतुत्वे दोपाभावात् । शुद्धद्रव्योत्पादस्य च त्रैलक्षण्यवादिना कुत्राप्यस्वीकारात् , भिधमाने हि त्रिप्रदेशिके त्रिप्रदेशिकदेशत्येन द्विप्रदेशिकं विनश्यति, द्विप्रदेशिकरकन्यत्वेनोत्पते, पुद्गलद्रव्यत्वेन च ध्रुवमिति क्य विरोधावकाशोऽपि । एतेन निराश्रयस्य परमाणुद्रव्यस्य नोत्पत्तिरित्यपि निरस्तम् । द्रव्यसामान्यस्याश्रयस्य तत्रापि जागलकत्वात् , आश्रितैकत्वमावस्य सामाप्रमाणाऱ्या, अत एव सुवर्णका व्यापाकिटकस्य फेयूरभावेऽर्थान्तरभावगमनलक्षणविनाश एवानु. भूयते, न तु तत्र कटकस्य के चिझागेषु क्रिया ततो विभागः, तदनु पूर्वसंयोगनाशतत्पश्चाद् द्रव्यनाशः, पुनस्तदयवा विशालता एवं केवला, तदनन्तरमेकस्मिन् परमाणो परमाणुढथे वा क्रियाविभागपूर्वसंयोगनाशपरमाणुढयसंयोगप्रक्रियया इयणुकोत्पत्तिः, तदनु ज्यणुकाद्युत्पतिक्रमण केयूरभावः प्रमीयते, तथाऽपि तथा कल्पनायां गौरवदोपमाह-सर्वत्र परमाणु पर्य.तभेदेनेति । विभागो हि विधमानद्रव्ययोर्भवतीति निप्रदेशिकरकन्धे द्विप्रदेशिकस्कन्धः परमाणुश्चोत्पत्तः पूर्वमस्ति, न पा, अस्ति चेत्, कथमुत्पादः, पूर्वमेव सत्यादिति भेदस्य न द्रव्यजनकत्वम् , नारित चेत्तर्हि न तयोविभागः, तथा च कथं ततस्समुत्पत्तिरित्याशकते यौगिक उत्पत्त: प्रागिति । तभिषेधति-नेति । निषेधे हेतुमाह-भेदस्य पाश्रय इत्यादि। त्रिप्रदेशिके द्विप्रदेशिकस्कन्धस्तदवयवत्वेनास्ति, एवं परमाणुरपि, तयोविभागे च सति तदवयवत्वेन विनश्यति द्विप्रदेशिकरकन्यत्वेनैवं विविक्तपरमाणुत्वेन चोत्पद्यत इति कथञ्चिदुत्पाद एवेष्ट इति स्कन्धात्परमाणोइयणुकरय वा भेदे सति तस्य विभागपर्यायविशिटपरमाणुयणुकद्रव्योपादहेतुत्वं न दोपावहम् । अत एव परमाणोरपि पूर्वद्रव्येण सह संयुक्ततया विनाशः, वियुक्ततयोत्पत्तिश्च, परमाणुस्वरूपत्वेन पुलद्रव्यत्वेन वा धौव्यमिति लक्षण्यमातगायते, कुत्रापि कदापि नचिद्रूपेण कस्यापि पूर्वमसतो नव्यद्रव्यस्योत्पत्तिमात्माननुभवेन स्याद्वादिमितस्वीकारादिति भावः। एतदेव विवृणोत्ति- भिद्यमाने हीत्यादिना । एतेन निराश्रयस्थ परमाणुद्रयस्य नोत्पत्तिरित्यपि निरस्तमिति-अवयवी स्वाक्य समवायिकारणे उत्पद्यत इति द्वयणुकसावयविनः परमाणुरूपे स्वाश्रयेऽवयव उत्पत्तिसम्भवति, परंभाणोस्तु निरवयवत्वादाश्रयरहितस्य नोत्पत्तिसम्भवतीत्यप्यतेन निरस्तमित्यर्थः । निरसने हेतुमाहद्र०यसामान्यस्थाश्रयस्येत्यादि । एकप्रदेशत्वेन यः परमाणुरुत्पन्नस्तस्यैव द्रव्यरूपेणावस्थितस्य सत आश्रयस्य तत्रापि विद्यमानत्वादित्यर्थः । एतेन सामान्यं करिमश्चिदाश्रितमेव, न तु कस्याप्याश्रय इत्याश्रितकस्वभावं तदिति द्रव्यरूपेणावस्थितत्वात सामान्यरूपस्य परमाणोरकप्रदेशत्येन यः परमाणुरुत्पन्न दाश्रयत्वं नेत्यपि निरस्तम् , पूर्वोत्तर कटेककेयूरादिपर्यायानुगामितयोचंतासामान्येऽपि सुवर्णे कुण्डलमुत्पन्न मिति प्रतीत्या कुण्डलपर्याथाश्रयत्वस्थानुभूयमानत्वादित्याशयेनाह -आश्रितकस्वभावस्य सामान्यस्येत्यादि । ननु