________________
-तत्वाविवरणपूढार्थदीपिका। पं० सं० टी० : १४३ : भावतो जीवा इत्यादि । ननु भावजीव इत्येकवचनेन पूर्व विन्यस्य व्याख्यावसरे बहुवचनान्तप्रदर्शनमयुक्तं भावतो जीवा इति, उच्यते, मैवं कश्चिद् ज्ञासीत् यदुत एक एक भावजीवो न भूयास इति । यथाहुः "पुरुषकार णिनः पुरुष एवेदं सर्वमित्यादि"। औपशमियादि । औपशमिकादयो भावा वक्ष्यन्ते, तैर्युक्त। उपयोगलक्षणाः संसारिमुक्तभेदाः, अत्रोपयोग एव लक्षणम्, अन्यस्वरूपकथनं, औपशमिकादिभावपञ्चकस्य क्षायिकसम्यक्त्ववत उपमश्रेण्यां मनुष्यस्यैव सम्भवादन्यजीवप्वव्याप्तरन्यतमभाववत्वस्य चाजीवेऽतिव्याप्तः । यद्वा भावजीवपदप्रवृत्तिनिमित्तोपवर्णनस्यात्राधिकृतत्वाज्जीवत्वमुप
साधुश्रावको वा भावावश्यक इति। अत्र "किरियाऽऽमो न होइत्ति" वचनात् क्रियालक्षणे देशे आगमस्थामावानोआगमत्य, नोश०दस्य देशनिपेयवचनत्वात् , देशे स्वागमोऽस्ति क्रियासूत्राणामागमरूपत्वादिति । यद्व। तथाविधज्ञानक्रियारूपो यः परिणामः स नागम एव केवलो न चानागम इत्यतो मिश्रवचनत्वानोशब्दस्य नोआगमत इत्याख्यायत इति । नवागमनोआगमाश्रितभावद्वयानुगतं भावनिक्षेपलक्षणं किमिति चेत् , उच्यते-तत्तत्पदवाच्यतत्तदर्थोपयोगोपयुक्तजिनोक्तक्रियातत्तक्रियास्त्रार्थोपयुक्ततत्तच्छन्दव्युत्पत्तिनिमित्तालिङ्गिततत्तत्परिणामसमुच्चयान्यतमत्वलक्षणभावत्वालिजितेऽर्थे तत्तच्छन्दवाच्यताबोधकवचनत्वं भावनिक्षेपत्यमिति भावनिक्षेपलक्षणं पर्यवसितं जानीहि । भावतो जीवा इत्यादीति-पूर्व यद्वचना । पदं प्रोक्तं तद्वचना
तपदमेव व्याख्यातुं योग्यमित्यत्र तत्परावर्तने बीजपरिज्ञानाथाशङ्कते-नन्विति । समाधत्ते, उच्यते, मैवमित्यादिना। पुरुष एवेदं सर्वमित्यादि-अत्र पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यहरे यदु अतिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाबत इत्यादि ग्राथम् , एतच्च ब्रह्मवादिमतं, तन्मते व तेन तेन घटाधात्मनाऽवभासते । यथा चायं सर्प इयं मालेत्यादाविदं स्वरूपमनुगामि तथा सन् १८ः सन् पट इत्यादी सर्वत्र सद्रपमनुगामि, एवं च घटपटादिरूपस्य जगतस्सत्ता ब्रह्मसत्तव, अतरसवं यद् भूतं यच्च भाव्यं तत्सर्वं जगद् ब्रह्मैवेति । ननु भावजीवानां नानात्वे किं मानमिति चेत्, उच्यतेकवित् सुखी कश्चिद् दुःखी कश्चिद्रङ्कः कश्चिद्धनान्यः कश्चिदुचाभिजनः कश्चिन्नीचाभिजनः कश्चिद्विद्वान् कश्चिजाल्म इत्यादिव्यवस्थाऽऽत्मभेदमन्तरेणाऽनुपपद्यमाना साधयत्यात्मभेदम् , अत्र यह वक्तव्यं तथापि ग्रन्थगौरवमयानोच्यते । अन्यत्स्वरूपकथन मिति-औपशमिकक्षायिकक्षायोपशमिकौदायिकपारिणामिकभावयुक्ता इति तु जीवस्वरूपपरिचायकम् , न तु लक्षणप्रविष्टम् , लक्षणप्रविष्टत्याभ्युपगमे को दोष इत्याशङ्कायामव्याप्तिदोपमाह-औपशमिकादिभावपश्चफस्येत्यादिना । अथौपशमिकादिभावपञ्चकन्यतमभाववस्वमेव लक्षणं कक्षीक्रियते, न चोक्ताव्यातिः, भावपञ्चकान्यतमान्तर्गतस्य कस्यचिद्भावस्थाऽन्यजीवेष्वपि सद्भावादिति चेत्, तयजीवत्वलक्षणपारिणामिकभावमादायाऽन्यतमभाववस्वस्य लक्षणस्याऽजीवे गमनादतिव्याप्तिस्स्यादित्याह-अन्यतम भाववत्वस्य चाजीवेऽतिव्याप्तेरिति । अन्यतस्वस्थ