________________
: १५४ :
तार्थविवरण गूढार्थदीपिका । पं० सू० टी०
योगवत्त्वं सिद्धमुक्तान्यतरत्वं भावपञ्चकचद् वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमित्याद्यखिलमाश्रयणीयम् । व्युत्पनस्य यत्पदात् यावद्धर्मावच्छिन्नमस्खलनृत्योपतिष्ठते तावद्धर्माणा तत्पदप्रवृत्तिनिमित्तत्वस्य न्याय्यत्वात्, लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकत्वस्य गुरुण्यपि स्वीकारात्, अत एव च प्रकृतिजन्यबोधप्रकारभेदद्वयघटितत्वेन गौरवालक्षणान्तरमाह- भावपञ्चकवद् वृत्तीत्यादि । अत्र भावपञ्चकवद्वृत्तिजातिमत्त्वमित्युक्त द्रव्यत्वजातिमादायाऽजीवेऽतिव्याप्तिः, तन्निवृत्तये द्रव्यत्वव्याप्येति । द्रव्यत्वव्याप्यजातिमच्यमित्युक्तावजीवत्वमादायाजीत्रे तदवस्थातिव्याप्तिरिति भावपञ्चकतीति । ननु तथापि द्रव्यत्वस्यापि तदभाववदवृत्तित्वेन द्रव्यत्वव्याप्यत्वात्तदादाय पूर्वोक्तातिव्याप्तिरिति चेत्, न द्रव्यत्वाऽन्यत्वेनाऽपि जातेर्विशेषणीयत्वात् वस्तुतस्तु द्रव्यत्वव्याप्यत्वं प्रकृते द्रव्यत्यन्नवृत्तित्वमेव लाभात् तच्च द्रव्यत्यसमानाधिकरणभेद प्रतियोगितावच्छेदकत्वरूपं न द्रव्यत्व इति तदादाय नातिव्याप्तिसम्भवः । ननु यद्धर्मेण यदर्थे यत्पदस्य शक्तिग्रहस्तत्वदस्य तद्वर्मः प्रवृत्तिनिमित्तं यथा घटपटादिपदस्य घटपटत्यादिधर्मेण घटपटादिरूपार्थे घटत्वपटत्वाद्यवच्छिने घटपटादिपदस्य शक्तिरित्याकारकशक्तिग्रहाद् घटादिपदस्य घटत्वादिरेक एवं लघुभूतोऽनुगतो धर्मश्शक्यतावच्छेदक इति कथं भावजीवपदस्यानेकधर्माणां प्रवृत्तिनिमित्तत्वमत्रोक्तं सङ्गच्छत इत्याशङ्कायां तन्निवृत्यर्थं न्याययुक्तिमाह व्युत्पन्नस्य यत्पदादित्यादि । अस्खलवृत्त्योपतिष्ठत इति । सङ्केतसहकृतप्रमात्मकशक्तिग्रहद्वारा शाब्दबोधविपयीभूतमित्यर्थः । यत्र विवक्षितशब्दप्रतिपाद्य एक एव भावरूपोऽर्थस्वत्र तद्गतो लघुभूत एक एव धर्मः शक्यतावच्छेदक इति नास्ति नियमः, किन्तु विवक्षितपदेन कस्यापि भावात्मकार्थस्य येन येन धर्मेण स्वगतेन शाब्दबोधस्सम्भवति ते ते धर्मा अन्यतमत्वेन संगृह्य तत्पदप्रवृत्तिनिमित्तत्वेन वाच्या इति भावः । लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकत्वस्य गुरुण्यपि स्वीकारादिति । गङ्गायां घोष - इत्यादौ गङ्गापदस्य गङ्गातरित्वेन तीरे यदा लक्षणाग्रहस्तदा गङ्गातीरे घोष इति बोधः, यदा पुनस्तीरत्वेन तीरे लक्षणाग्रहस्तदा तीरे घोष इति बोधः, तदर्थं गङ्गातीरत्वमपि गङ्गापदस्य लक्ष्यतावच्छेदकं तीरत्वमपि तथा, एवञ्च तीरत्वापेक्षया गङ्गातीरत्वस्य गुरुत्वेऽपि यथा लक्ष्यतावच्छेदकत्वं तथा यद्धर्माविशिष्टे यत्पदस्य शक्तिग्रहस्तद्धर्मस्तत्पदशक्यतावच्छेदक इति नियमेन यदा गुरुधर्मविशिष्टे शक्तिग्रहादा गुरुधर्मः शक्यतावच्छेदकः, यथा कम्बुग्रीवादिमच्चविशिष्टे घटपदशक्तिग्रहे कम्बुग्रीवादिमत्वं घटपदशक्यतावच्छेदेकं यदा तु घटत्वविशिष्टे घटपदशक्तिग्रहस्तदा घटत्वेन घटवोधाद् घटत्वं शक्यतावच्छेदकमिति दिशा गुरु'धर्मेऽपि लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकत्वस्य स्वीकरणीयत्वादित्यर्थः । उक्तार्थे वैयाकरणानामनुमतिमुपदर्शयति-अत एवेति गुरुधर्मे शक्यतावच्छेदकत्वस्य स्वीकारादेवेत्यर्थः । प्रकृतिजन्येति- प्रकृतिजन्ययोधे प्रकारीभूतो भावस्त्थतलादिप्रत्ययाभिधेय इत्येवं वैयाकरणैरम्युपगम्यते, प्रकृतिजन्यबोधप्रकारीभूतो यो भावस्तच्चलक्षण गुरुधर्म एव त्वतलादिप्रत्ययशक्य
"