________________
: १४२ :
तत्वार्थविवरणगूढार्थदीपिका । पं० सू० टी० उच्यत इति । " आगमतो अ नोआगमतो अ" इत्यनुयोगद्वार वचना-झावोऽपि विविधः, तत्राममाश्रित्य "जाणए उपउत्ते" इत्यायनुयोगद्वारोक्तेभीवेन्द्र इन्द्रे पदार्थस्तत्र चोपयुक्तः, इन्द्रे पदार्थोपयोगलक्षणस्याऽऽगमस तत्र सद्भावात् । एतदभिप्रायेणैव बृहत्वपभायेऽप्युक्तम्"जो पुण हस्थजुत्तो, सुद्ध नयाणं तु एस भाविंदो इंदस्स व अहिगारं, बियाणमाणो तदुवउत्तो ॥ १५ ॥” इति, अत्राह-जन्धिन्द्र शब्दार्थ जाननिन्द्र शब्दार्थे उपयुक्तश्च भावेन्द्र इत्युक्तं कथं सङ्गच्छतं, यतो न हि यो घटं विजानाति स घटीभवति, प्रत्यक्षविरोधादिति चेत् , मैवम् , यतो न हि सर्वथा भिन्नयोरभिन्न योर्वा सम्बन्धः, किन्तु कथञ्चिद्भिन्नाभिन्नयोरेवेतीन्द्र तज्ज्ञानयोधंटतज्ज्ञानयोश्च कथञ्चिदिविशिष्टाभेदाभ्युपगम एव विषयावपयिभावसम्बन्धोऽप्युपपद्यत इत्युक्तसम्बन्धद्वारेन्द्रतज्ज्ञानयोर भेदः, इन्द्रोपयोगरूपेण परिणाभ्यात्मनश्चेन्द्रविषयकोपयोपरिणामानन्यत्यादिन्द्रज्ञानाभेदः, तथा च तदाभिन्नाभिन्नस्य तदभिन्नन्वमिति नियमादिन्द्राभिन्नज्ञानाभिनात्मन इन्द्राभिन्नत्वादन्द्रज्ञस्तत्र चोपयुक्तचैत्राद्यात्मा भावेन्द्रः। यहा "अर्थाऽभिधानप्रत्ययास्तुल्यनामधेयाः, तथाहि-इन्द्रासनस्थोऽपीन्द्र इन्द्रशब्देनोच्यते, इन्द्रशब्दोऽपन्द्रिशब्देन, इन्द्रज्ञानमपीन्द्रशदेनेति, तथा चेन्द्रार्येन्द्रशम्झेन्द्रज्ञानानामेकेन्द्रशब्दवाच्यत्वेनाऽभेदः, ज्ञानञ्चज्ञानि नोऽपृथग्भूतम्, तथा च तदभिन्नामिन्नस्य तदभिन्नत्वमिति नियमबलत इन्द्रज्ञान्यपीन्द्र इत्युच्यते, एवं घटज्ञानवानपि घटः, अन्यथा तज्ज्ञाने सत्यपि नोपलभ्येत, अतन्मयत्वात् । प्रदीपहस्तान्धवत्, पुरुषान्तरपद्वति । तस्मात्सुष्ट्रक्तमिन्द्रार्थ जानस्तत्रोपयुक्तो भावेन्द्र इति । उक्तञ्चाशकोत्तराभ्यां वृहत्कल्पभाष्ये-"न हि जो घडं विवाणइ, सो उ घडीमवई ने य वा अगी। नाणं ति य भावो त्ति य, एगहमतो अदोसोति ॥ १७॥ जमिदं नाणं दो, न व्यतिरिच्चति ततो उ तन्नाणी । तन्हा 'खलु त०भावं, वयंनि जो जत्य उपउत्तो ॥१८॥" इति । नविन्द्रार्थोपयोगवतो भावन्द्रत्वे तद्वदग्न्युपयुक्तस्य माणरकस्य भावाग्नित्वं स्यात् , तथाऽस्तु का नाम नो हानिः, दहनपचनप्रकाशनादितत्कापित्तिरिति चेत् , मैवम् , यतो न ह्यनल सर्व एव दहनादिकार्यप्रसाधको, भरमच्छ नाग्निना व्यभिचारात् । ननु जानाद्वैतनयमतमेतदिति तत्र भवतां प्रवेशरस्यादिति चेत्, किं ततः, सर्वनयमये भगवत्प्रवचने यथाधिकारं यथेतियाऽऽश्रयणे दोपाभावादिति । नोआगमतश्च " इदि परमैश्वर्ये " इति परमैश्वर्यविभूतिविभूषित स्वर्गाधिपो भावन्द्रः, इन्दनादिन्द्र इति व्युत्पत्ति सिद्धेन्द नादिक्रियानुभूतेः । अयम्भावः-नोआगमतो मावेन्द्र इन्द्रनामगोत्रे कर्मणी वेदयन् परमेश्वर्यभाजनम् , सर्वनिषेधवचनवान्नोशब्दस्य, यतस्तत्र नेन्द्र पदार्थज्ञानमिनद्रव्यपदे शनिवन्धनतया विवक्षितम् , कि. । इन्दनक्रियेव, तच्छालित्वानोआगमतो भावेन्द्रः। आगमतो भावघटो घटज्ञानोपयुक्त:, नोआगमतो भाववटश्च रक्ततादिपरिणामपरिणतः, वटचेष्टायां घटते चटत इति ५८ इनि व्युत्पत्तिसिद्धजलाहरणादिक्रियावांश्च । ननु नोश०दस्य सर्वनिषेधार्थत्वे उक्तदृष्टान्तप्रदर्शनं युक्तियुक्त मेव, देशनिषेधार्थकत्ये को दृष्टान्त इति चेत् , उच्यते-तत्तदर्थभावनामावितान्तःकरणो यथोचितव्यापार रातिदेहरजोहरणमुखवस्तिकादिरावश्यकक्रियां कुर्वन्