________________
तत्त्वार्थविवरणपूढार्थदीपिका । पं० स० टी० रिकारः । अपरे त्वव्यापितातोपभयादेवं वर्णयन्ति-अहमेव मनुष्यजीवो द्रव्यजीवोऽभिधातव्यः । अहं हि तस्योत्पित्सोदेवजीवस्य कारणं भवामि । यतश्चाहमेव तेन देवजीवभावेन भविष्याम्यतोऽहमधुना द्रव्यजीव इति । एतत्तैरुक्तं भवति, पूर्वः पूर्वो जीवः परस्य परस्योत्पित्सोः कारणमिति । अस्मिश्च पक्षे सिद्ध एव भावजीवः स्यात् , नान्यः कश्चित् , प्रथमाप्रथमाधादेशाश्रयणे च सोऽपि न स्यात् , प्रथमसिद्वद्रयाणामप्रथमसिद्धद्रव्यकारणत्वात्, कारणत्वानालिशितबुद्धिविषयस्य भावजीवत्वाश्रयणे च किमपराई वा गुणपर्यायवियुतबुद्धिविषयस्यात्मनो द्रव्यजीवत्वयादिना, येन तत्पक्षे प्रद्वेषः । दण्डादेर्यथा द्र०यत्वादिनाऽन्यथासिद्धत्वं दण्डवादिना च हेतुत्वम् , तथा जीवे द्रव्यत्वं भावत्वं च स्यादिति चेत्, न, तयोरुभयोरुपाध्यो. सप्रतियोगिकत्येनाविरोधात् , अत्र पादिराजीवद्रव्यहेतुत्वं द्रव्यजीवत्वं तदहेतुत्वं च भावजीवत्वमित्यनयोर्विरोधात् ।
न किमप्यनुमानं दुष्टं स्यादिति वाच्यं, यतो यत्र नानुकूलतर्कस्तत्र व्यभिचार सन्देहस्य व्याप्तिनिश्चयप्रतिबन्धकत्येन तत्राऽनुमानस्य दुष्टत्वम् , नाऽन्यत्रेति भावः । सर्योपसंहारेण व्याप्तिवादिनां मतमाह-अपरे त्वव्यापिनादोषभायादेवमित्यादि । सिद्ध एव भावजीवस्स्थात्, नान्यः कश्चिदिति-सिद्धस्य कर्मसम्बन्धाभावेन सदावस्थितस्वरूपतया न गत्यन्त गमन मिति गत्यन्तरभाविजीवपर्यायकारणत्याभावात् स एव भावजीवस्स्थात्, न संसारिजीवः कश्चित् , न हि तस्य कस्यापि कर्मप्रयोज्यस गत्यन्तरगमनस्याभाव इति तेषां सर्वेषां गत्यन्तरभाविजीवपर्यायकारणवाद् द्र०यजीवत्वस्यैव भावात् । सोऽपि न स्यादिति-सिद्धजीवोऽपि भावजीवो न स्यादित्यर्थः। तत्र हेतुमाह-प्रथमसिद्धद्रव्याणामप्रथमसिद्धद्रव्यकारणत्वादिति-पूर्वपूर्वसिद्धपर्यायाणामुत्तरोत्तर स्वीयसिद्धपर्यायान् प्रति कारणत्वेन द्रव्यजीवत्वमेव स्यात्, न तु भावजीवत्यमिति भावः । कारणत्वानालिझिलवद्धिविषयस्योति-सिद्धजीवस्योत्तरोत्तर स्वीयपर्यायकारणत्वे सत्यपि कारणत्वाभावविषयकवुद्धिविषयत्वेन तस्येत्यर्थः । गुणपर्यायवियुतबुद्धिविषयस्येनि-गुणपर्यायसहितस्यापि तद्वियुक्तत्वेन बुद्धिविषयत्यतस्तस्येत्यर्थः । ननु जीवे गुणपर्यायवत्यपि तद्वियुक्तत्वप्रकारकवुद्धिविशेष्यत्वं चेदभ्युपगम्येत तदा तस्मिक्तबुद्धिविषयत्वाद् द्रव्यत्वमुपयोगरूपत्वाद् भावत्वञ्च स्थादिति दण्डदृष्टान्तपुरस्सरमाशङ्कते-दण्डादेयथेत्यादिन।। जीवे द्रव्यत्वं भावत्वश्च स्यादिति-तथा च तयोविरोधकस्यैवाऽऽत्मनो विरुद्ध नानाधर्माध्यासाद् भेद स्यादिति भावः । सप्रतियोगिकत्वेनेति-सापेक्षकत्येनेत्यर्थः, सापेक्षधर्मयोविरोधाऽभावेन भेदाप्रयोजकत्वादिति भामः । आदिष्टजीवद्रव्यहेतुत्वं द्रव्यजीवत्वमिति-यद्यपि जीवद्रव्यं कालत्रययत्येकमेव तथापि मनुष्यगतिलक्षणप्रथमभवे वर्तमानरस प्रथमतय ऽऽदिश्यते तदनन्तरदेवभवलक्षणाऽप्रथमभवे भविष्यन् अप्रथमतया विवक्ष्यते तत्रोत्तरदेवभवलक्षणेऽप्रथमभये उत्तरोत्तरस्त्रपर्यायकारणत्वादादिष्टं विवक्षितं यदेवजीवद्रव्यं तद्धे- . तुत्वं मनुष्य जीवस्य द्रव्यजीवत्वं तस्यैव मनुष्यजविस्य अप्रथ , 4' •..--... भावजीवत्वमित्यनयोन्यजीवत्वभावजीवत्वयोर्विरोधात्, यस्यैव