________________
वरदराजविरचितम् ।
अन्यथात्वं समायातं स्वस्वरूपस्य योगिनः । इत्याशङ्कानिवृत्त्यर्थं सूत्रमाह महेश्वरः || १३६ ॥
तत्प्रवृत्तावप्य निरासः संवेत्तृभावात् ॥ ३२ ॥
तेषां सृष्ट्यादिभावानां प्रवृत्तावप्यनारतम् । उन्मज्जनेऽपि निष्कम्पयोगावष्टम्भशालिनः ॥ १३७ ॥ 'अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥ १३८ ॥ कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥ १३६ ॥ नतु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ॥ १४० ॥ इति श्री स्पन्दशास्त्रोक्तनीत्या तस्यास्य योगिनः । निरासः स्वसंवेत्तृभावादप्रच्युतिर्निजात् ॥ १४१ ॥ उद्यत्तुर्यचमत्कारादुपलब्धृस्वभावतः । निरासे तस्य सृष्ट्यादेः सृज्यस्याप्यप्रकाशनात् ॥ १४२ ॥
विश्वसृष्टिस्थितिध्वंसेष्वप्रकम्पस्य योगिनः ।
सुखासुखयोर्बहिर्मननम् ॥ ३३ ॥
३७
उत्तीर्णदेहप्राणादिप्रमातृत्वस्य धीमतः ॥ १४३ ॥ वेद्यस्पर्शजयोस्तस्य मननं सुखदुःखयोः । इदन्ताभासरूपेण नीलपीतादिवद्बहिः ॥ १४४ ॥