________________
शिवसूत्रवार्तिकम् । [३३० अहं सुखीति दुःखीति लोकवन्नत्वहन्तया । स्वशक्तिप्रचयो विश्वमिति सूत्रार्थनीतितः ॥ १४५ ॥ अहन्ताच्छादितलेन सर्वमस्य प्रकाशते । योगिनो लौकिकस्येव सुखाद्येव न केवलम् ॥ १४६ ॥ अतिक्रान्तमहामोहाक्रान्तदेहाद्यहंकृतिः । लोकवत्सुखदुःखाभ्यां कथं स्पृश्येत योगिराट् ॥ १४७ ।।
उदंचच्चित्तमातृत्वन्यंचत्पुर्यष्टकस्थितेः । यतो न तत्सुखाद्यन्तस्तत एवैष साधकः ॥ १४८॥
तद्विमुक्तस्तु केवली ॥ ३४॥ ताभ्यां मुक्तो विशेषेण योगीन्द्रो यत्तयोर्यतः । संस्कारेणाप्यसंस्पृष्टः केवली चिन्मयः स्मृतः॥१४६ ॥ तुशब्दोऽन्तरमाख्याति वक्ष्यमाणव्यपेक्षया । एवमुत्तरसूत्रस्थोऽप्येतत्सूत्रव्यपेक्षया ॥ १५० ॥ ३४ ॥
तदेवाह तुशब्दोक्तमन्तरं चन्द्रशेखरः ।
मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५ ॥ मोहः स्वाख्यातिरज्ञानं तेन यः प्रतिसंहतः ॥ १५१ ॥ तदेकघनतां प्राप्तस्ततो दुःखाद्युपाश्रयः । तत एव स कर्मात्माशुभाशुभकलङ्कितः॥१५२॥३५॥
तस्यैवमीदृशस्यापि तत्तत्कर्मात्मनो यदा ।