________________
शिवसूत्रवार्तिकम् । योगी हेतुस्ततो दानमात्मज्ञानमितीरितम् ॥ १२७॥२६॥
इत्येवमविपस्थस्य ज्ञाहेतोरस्य योगिनः ।
स्वशक्तिप्रचयो विश्वम् ॥ ३०॥ 'शक्तयोऽस्य जगत्कृत्व शक्तिमांस्तु महेश्वरः॥ १२८ ॥ इत्यागमदिशा विश्वं स्वशक्तिप्रचयो यथा । शिवस्य, तत्समस्यापि तथास्य परयोगिनः ॥ १२६ ॥ स्वस्याः स्वात्माविमुक्तायाः शक्तेः संवेदनात्मनः । प्रचयः स्फुरणारूपो विकासो विश्वमिष्यते ।। १३० ।। ३०॥
न परं सृष्ट्यवस्थायाममुष्य परयोगिनः । स्वशक्तिप्रचयो विश्वं यावत्तत्पृष्ठपातिनौ ॥ १३१ ।।
स्थितिलयौ ॥ ३१ ॥ स्वशक्तिप्रचयौ प्रोक्तो तावपीत्यनुवर्तते । विकासितस्य विश्वस्य क्रियामय्या स्वसंविदा ॥ १३२ ॥ तत्तत्प्रमात्रपेक्षातः किंचित्कालमिदन्तया । या स्थितिश्चिन्मयाहंताविश्रान्त्यात्मा च यो लयः॥१३३ ॥ तावुभौ योगिनस्तस्य स्वशक्तिप्रचयात्मकौ । विकसत्संकुचत्सर्व वेद्यं यत्संविदात्मकम् ॥ १३४ ।। अन्यथा तस्य वेद्यस्य वेदनानुपपत्तितः ॥ ३१ ॥
ननु सृष्टिस्थितिध्वंसेष्वेवमन्योन्यभेदिषु ।। १३५ ॥