________________
शिवसूत्रवार्तिकम् । [.उ. सर्वेषां चैव मत्राणां विद्यानां च यशस्विनि ॥ ३४ ॥ इयं योनिः समाख्याता सर्वतत्रेषु सर्वदा।। इति श्रीत्रीशिकाशास्त्रप्रोक्नन्यायेन मातृका ॥ ३५ ।। अकारादिविसर्गान्तस्वरषोडशगर्भिणी । अत एवादिबिन्द्वन्तदशपंचतिथिक्रमा ॥ ३६ ॥ तदात्मकतदुत्तीर्णबिन्दुद्वन्द्वविभूषिता । अत एव जगत्सर्व सृजत्यन्तरनुत्तरे ॥ ३७ ॥ तत्पंचदशकस्यान्तरुद्धृतैः पंचभिः स्वरैः । अ-इ-उ-अ-लविन्यासैः कादिमान्तं च वाचकम् ॥ ३८ ॥ चित्यादिपुरुषान्तं च वाच्यं तत्त्वकदम्बकम् । पंचपंचकभेदेन पंचपंचविजृम्भितम् ॥ ३९ ॥ बहिश्चानुत्तरादेव सृजती विश्वमीदृशम् । वाय्वग्निसलिलेन्द्राणां क्रमाद् य-र-ल-चात्मनाम् ॥ ४० ॥ अनुत्तरेच्छोन्मेषाख्यत्रितयान्योन्यसंधितः । किंचानुत्तरषण्ढाख्यद्वयसंधिवशादपि ॥ ४१ ॥ उत्थितानां कलाविद्यामायारागाभिधायिनाम् । स्वरूपगोपनात्सर्वकर्तृत्वाद्यपसारतः ॥ ४२ ॥ खण्डितस्य पशोः किंचित्कर्तृत्वादिप्रदायिनाम् । मायोर्ध्वशुद्धविद्यादितचारोहनिरोधनात् ॥ ४३ ॥ मूलादधोऽवरोहस्य निरोधाच्च त्रिशङ्खचत् । मध्ये संस्थापितस्यास्य धारणाद्धारणात्मनाम् ॥ ४४ ॥ 'यतिस्तु भावाभावानां व्यवस्थोदयदायिनी । कालोऽपि तां महामायां स्वतत्रामनुवर्तते ॥ ४५ ॥ इत्युक्त्या कालनियतियुक्तलात् षड्डिधात्मनाम् ।