________________
वरदराजविरचितम् ।
स्फारयन्ती वपुः पश्चात् दुर्ध्व शादिपंचकम् ॥ ४६ ॥ सद्योजातादिकेशानपर्यन्तब्रह्मविग्रहम् ।
सूक्ष्मरूपमहीवारिवह्निवायुनभोमयम् ॥ ४७ ॥ क्रमेण शुद्धविद्येशसादशक्तिशिवात्मकम् । विस्फारयन्ती स्वान्तःस्थं विसर्गकलया बहिः ॥ ४८ ॥ कादिसान्ताक्षरान्तस्थः चकारोऽप्यन्तिमो यतः । अतोऽकारहकाराभ्यामहमित्यपृथक्कया || ४६ ॥ प्रपंचं शिवशक्तिभ्यां क्रोडीकृत्य प्रकाशते । अस्यास्त्वेवंप्रभावायाचक्रं यत्तदिहोदितम् ॥ ५० ॥ अनुत्तरेच्छोन्मेषादिस्पन्दशक्निकदम्बकम् । तत्संबोधश्चिदानन्दघनस्वात्मानुसंहितिः ॥ ५१ ॥ ७ ॥
अथेद्मातृकाचक्रसंबोधोद्बोधितात्मनः ।
शरीरं हविः ॥ ८ ॥
१६
'शून्यं धीः प्राण इत्येतत्सृज्यते क्षीयतेऽपिच ॥ ५२ ॥ स्थैर्यमस्ति परं देहापेक्षया नतु तत्त्वतः ।' इत्युक्तनीत्या शून्यादेः प्रमाता वस्य भित्तिभूः ॥ ५३ ॥ शरीरं स्थूलसूक्ष्मादि चिदशौ परयोगिनः । हूयमानं हविः प्रोक्तं तन्मातृत्वनिमञ्जनात् ॥ ५४ ॥ परिपूर्णप्रकाशात्मप्रमात्रुन्मज्ञ्जनप्रदात् ॥ ८ ॥
एवं शरीरहव्येन ज्वलद्बोधोर्ध्वरोचिषः ॥ ५५ ॥