________________
वरदराजविरचितम् । गृणात्युपदिशत्यर्थं तद्वीर्य चेत्यतो गुरुः ॥ २४ ॥ स एव मन्त्रमुद्राणां वीर्यव्याप्तिप्रकाशनात् । उपायः कथ्यते साक्षादपेयं परमं प्रति ॥ २५ ॥ यद्वा गुरुः परा शक्तिरीश्वरानुग्रहात्मिका । अवकाशप्रदानेन सैव यायादुपायताम् ॥ २६ ॥ ६ ॥
'स गुरुर्मत्समः प्रोक्तो मत्रवीर्यप्रकाशकः ।' 'आदिमान्त्यविहीनास्तु मत्राः स्युः शरदभ्रवत् ॥२७॥ गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् ।' इति श्रीमालिनीशास्त्रसिद्धातत्रोक्तवैभवात् ॥ २८ ॥ अकृत्रिमाहमामर्शस्वरूपाद्यन्तवेदकात् । परमेष्ठिसमात्तस्मात्परमोपायतो गुरोः ॥ २६ ॥
मातृकाचक्रसंबोधः ॥७॥
मत्रमुद्रानुसंधानसन्ततोयुक्तचेतसः । भवत्युक्नगुरोः प्रीतात्साधकस्येति शिष्यते ॥ ३० ॥ 'अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानगाः । तदन्तः कालयोगेन सोमसूर्यो प्रकीर्तितौ ॥ ३१ ॥ पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु । क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ ३२ ॥ वाय्वमिसलिलेन्द्राणां धारणानां चतुष्टयम् । तर्चे शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् ॥ ३३ ॥ अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता ।