________________
शिवसूत्रवार्तिकम् । [२ उ० गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः॥ ४॥ गर्भोऽख्यातिर्महामाया तन्मये सिद्धिसंचये । विकासो नाम चित्तस्य तावन्मात्रे कृतार्थता ॥ १७ ॥ सैवाविशिष्टा विद्येति किंचिज्ज्ञत्वस्वरूपिणी । अशुद्धविद्या सा स्वप्नो विकल्पमत्ययामकः ॥ १८ ॥४॥
आगता अपि ताः सिद्धीः खलीकृत्य यदा पुनः । अवष्टनात्यसौ योगी परां सिद्धिं तदाश्नुते ॥ १६ ॥ विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था विद्यायाः प्राक्समाख्यातरूपायाः शंकरेच्छया । स्वाभाविके समुत्थाने समुल्लासे स्वभावजे ॥ २० ॥ उन्मजने सति चुद्रसिद्धिमजनतत्परे । अवस्था या शिवस्यान्तरवस्थातुरभेदिनी ॥ २१ ॥ स्फुरत्ता सैव संपूर्णस्वानन्दोच्छलनात्मिकाम् । मुदं रातीत्यतो मुद्रा खेचरी च नभश्वरी ॥ २२ ॥ व्यज्यते योगिनो विश्वम् विश्वोत्तीर्णस्वरूपिणः ।
एवंप्रभावयोर्वीर्यासादने मंत्रमुद्रयोः ॥ २३ ॥
गुरुरुपायः ॥६॥ सम्यग्ज्ञानक्रियाप्राणमन्त्रमुद्रायथास्थितिम् ।