________________
ॐ श्रीः *
PR
EMOREASORRENT
षड्दर्शनसमुच्चयः
ग्रन्थारम्भादिसदर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥२॥
__ षड्दर्शनोद्देशःबौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥ ३॥
बौद्धमतम्तत्र बौद्धमते तावदेवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः॥४॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥ समुदेति यतो लोके रागादीनां गणोऽखिलः। आत्मात्मीयस्वभावाख्यः समुदयः स संमतः॥६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या। स मार्ग इति विज्ञेयो, निरोधो मोक्ष उच्यते ॥७॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम्। धर्मायतनमेतानि द्वादशायतनानि च ॥८॥ प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः॥९॥