________________
लौकायतिकमतम् । एवममुना प्रकारेण लोकायतमतेऽप्ययं संक्षेपो निवेदितः, अपिः समुच्चये न केवलं परमते, संक्षेप उक्तो लोकायतमतेऽपि । ___अथ सर्वदर्शनसम्मतसङ्ग्रहे परस्परकल्पितानल्पविकल्पजल्परूपे निरूपिते किंकर्त्तव्यमूढानां प्राणिनां कर्तव्योपदेशमाहअभिधेयेति । सुवुद्धिभिः पण्डितैरभिधेयतात्पर्यार्थः पर्यालोच्यः, अभिधेयं कथनीयं शुत्यतया प्रतिपाद्यं यदर्शनस्वरूपं तस्य तात्पयार्थः सारार्थो विचारणीयः, सुबुद्धिभिरिति । शुद्धा पक्षपातरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः, यदुक्तम्'आग्रही बत निनीपति युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य हि तस्य यत्र तत्र मतिरेति निवेशमिति ॥
दर्शनानां पर्यन्तै कसारूप्येऽपि पृथक् पृथगुपदेष्टव्याद्विमतिसम्भवे विमूढस्य प्राणिनः सर्वस्पृक्तया दुर्लभं स्वर्गापवर्गसाधकत्वम् अतो विमर्शनीयस्तात्विकोऽर्थः, यथा च विचारितं चिरंतनैः।
श्रोतव्यः सौगतो धर्मः कर्त्तव्यः पुनराहतः ।
वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ॥. इत्यादि विमृश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलमतिभिरिति पर्यन्तश्लोकार्थः ॥ ८७ ॥
सप्ताशीतिः श्लोकसूत्रं, टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती द्वापञ्चाशदनुष्टुभाम् ॥ इति श्रीहरिभद्रसूरिकृतपड्दर्शनसमुच्चये मणिभद्रकृता
लघुवृत्तिः समाप्ता। शम् ।