________________
षड्दर्शनसमुच्चयः । प्रत्यक्षं कल्पनाऽपोढमभ्रान्तं तत्र बुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥ रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोश्वं त्रीणि विभाव्यन्ताम् ॥११॥ बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः ।
नैयायिकमतम्नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ आक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३॥ तत्वानि षोडशामुत्र प्रमाणादोनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयो। वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥ १५ ॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥ १६ ॥ प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा। तत्रेन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारिकम् ॥ १७॥ व्यवसायात्मकं ज्ञानं व्यपदेश विवर्जितम् । प्रत्यक्षमितरन्मानन्तत्पूर्वं त्रिविधं भवेत् ॥ १८॥ पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राचं कारणात्कार्यमनुमानमिह गीयते ॥ १६॥ रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥ कायोत्कारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥ २१ ॥ यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२ ॥