________________
.६१
जैमिनीयमतम् । सूत्रकृदाह-तु पुनर्नोदनां क्रियां प्रवर्तकं वचः प्राहुः, वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहुरित्यर्थः, शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह-स्वःकामोऽग्निं यजेद्यथा, यथा येन प्रकारेण स्वाकामः स्वर्गाभिलाषी जनोऽग्निं यजेद् अग्निकार्यं कुर्यात्, यथाऽहुस्तत्सूत्रम्-अग्निहोत्रं जुहुयात्स्वर्गकाम इति ॥ ७१ ॥ प्रमाणान्याहप्रत्यक्षमनुमानं च शब्दश्वोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जमिनः ॥७२॥
जैमिनेः पूर्ववेदान्तवादिनः, षट् प्रमाणानि ज्ञेयानीति सम्बन्धः, यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, भाहानामेव षट्, तथाऽप्यत्र ग्रन्थकृत्सामान्यतः पट्सङ्ख्यामाचष्टे
प्रमाणनामानि निगदसिद्धान्येव ॥ ७२ ॥ निरुक्तमाहतत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः। आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥७३ ॥
तत्र प्रमाणषट्के, अक्षाणामिन्द्रियाणां संप्रयोगे पदार्थः सह संयोगे; सतामनुपहतेन्द्रियाणां मतिर्बुद्धिरिदमित्यववोधः, तत्प्रत्यक्षं प्रमाणं 'भवतीत्यध्याहारः, यत्तदावतुक्तावप्यर्थसम्बद्धौ ज्ञेयो, सतामिति-विदुषामदुष्टेन्द्रियार्थः, एतावता मरुमरीचिकायां जलभ्रमः शुक्तौ रजतभ्रमश्चेन्द्रियार्थसंप्रयोगजोऽपि द्रष्टुरक्किलेन्द्रियत्वाभावान्न प्रत्यक्षं तत्प्रमाणकोटिमधिशेते, अनुमानमाह-'आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुन:' आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः, अनुमानलैङ्गिकयोः शब्दाभेदेऽप्यनुमीयत इत्यनुमानं, लिङ्गाजातं लैङ्गिकमिति व्युत्पत्तिभेदाभेदो ज्ञेयः, उभयशब्दकथनं तु बालावबोधार्थमेवेति ॥ ७३॥
शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधम्यादप्रसिद्धस्य भाजनम् ॥ ७४॥ शाब्दमागमप्रमाणं शाश्वतवेदोत्थं, शाश्वतान्नित्यावेदाज्जातम् ,