________________
सटीके षड्दर्शनसमुच्चये आगमप्रमाणमित्यर्थः, शाश्वतत्वं च वेदानामपौरुषेयत्वादेव, उपमानमाह-यत्प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाणं प्रकीर्तितं कथितम् , यथा प्रसिद्धगोगवयस्वरूपो वनेचरो प्रसिद्धगवयस्वरूपं नागरिकं प्राह-'यथा गौस्तथा गवय' इति, भोः ! खुरककुदलागृलसास्नाऽऽदिमन्तं पदार्थं गामिति जानासि; गवयोऽपि तथा स्वरूपो ज्ञेय इत्युपमानम् , अत्र सूत्रानुक्तावपि यत्तदावर्थसम्बन्धार्थमध्याहायौँ ॥ ७४ ॥ अर्थापत्तिमाह--
दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना। क्रियते यद्वलेनासावर्थापत्तिरुदाहृता ॥ ७५ ॥
असौ पुनरर्थापत्तिरुदाहृता कथिता, अर्थापत्तिप्रमाणं प्रोक्तमित्यर्थः। यदलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते सङ्घटना विधीयते, कया दृष्टार्थानुपपत्त्या दृष्टः परिचितः प्रत्यक्षलक्ष्यो योऽर्थों देवदत्ते पीनत्वादिः तस्यानुपपत्त्याऽघटमानतयाऽन्यथाऽनुपपत्तेः, यथा पीनो देवदत्तो दिवा न भुङ्क्ते पीनत्वस्यान्यथाऽनुपपत्या रात्राववश्यं भुङ्क्त इत्यर्थ इत्यत्र, दृष्टं विना भोजनं पीनत्वं दुर्घट, दिवा च न भुङ्क्तेऽतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यापत्तिः प्रमाणम् ॥ ७५ ॥ अथाभावप्रमाणमाहप्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्ताऽवबोधार्थं तत्राभावप्रमाणता ॥ ७६ ॥
यत्र वस्तुरूपेऽभावादौ पदार्थे प्रमाणपञ्चकं पूर्वोक्तं न जायते, तत्राभावप्राणता ज्ञेयेति सम्बन्धः, किमर्थमित्याह-वस्तुसत्ताऽवबोधार्थम् , वस्तु नोऽभावरूपस्य मुण्डभूतलादेः सत्ता घटाधभावसद्भावः तस्यावबोधः प्रामाणिकपथावतारणं तदर्थं तद्धतोरित्यर्थः ।
ननु कथमभावस्य प्रामाण्यं, प्रत्यक्षं-तावद्भूतलमेवेदं घटादि न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तुपरिच्छेदः, तदधिकं विषयमभावैकरूपं निराचष्ट इति, किं विषयमाश्रित्याभावप्रामाण्यं स्याद्