________________
सटीके षड्दर्शनसमुच्चयै
प्रयोगात्र - नास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात्, शशशृङ्गवदिति ॥ ६८ ॥ अथ कथं यथावस्थिततत्त्वनिर्णयः ? इत्याहतस्मादतीन्द्रियार्थानां साक्षात् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथाऽर्थत्वविनिश्चयः ॥ ६९ ॥ तस्मात्प्रामाणिक पुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरपदार्थानां साक्षाद् द्रष्टुत्रादेः पुरुषस्याभावाद् नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभ्यो यथार्थतत्त्वविनिर्णयो यथाऽवस्थितपदार्थधर्मादिस्वरूप विवेचनं 'भवती' त्यध्याहारः अपौरुषेयत्वं च वेदानाम्
६०
'अपाणिपादो मनोगृहीतः पश्यत्यचक्षुः स शृणोत्यकर्ण: । सवैत्ति विश्वं न च तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ' ॥ इत्यादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीयमिति ॥ ६९ ॥
अथ यथाऽवस्थितार्थव्यवस्थापकं तत्त्वोपदेशमाह - अत एव पुरा कार्यो वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ॥७०॥ यतो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयः, अत एव पुरा पूर्वं प्रयत्नतो यत्नाद्वेदपाठः कार्यः 'ऋग्यजुःसामाथर्वाणो वेदास्तेषां पाठः कण्ठपीठलुठत्पाठप्रतिष्ठा, नानुश्रवणमात्रेण सम्यगववोध स्थिरता, ततोऽनन्तरं साघनीयपुण्योपचयहेतुर्धर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्त्तव्या विधेया, वेदोक्ताभिधेविधाने यतितव्यमित्यर्थः ॥ ७० ॥
वेदोक्तधर्मोपदेशमेवाह
नोदनालक्षणो धर्मों, नोदना तु क्रियां प्रति । प्रवर्त्तकं वचः प्राहुः स्वः कामोऽग्निं यजेद्यथा ॥ ७१ ॥ नोदनैव लक्षणं यस्य स नोदनालक्षणो धर्मः, तत्स्वरूपमेव