________________
जैमिनीयमतम् । न, त्वद्यथोक्तवचनप्रपञ्चोपन्यासै रेव निरस्तत्वाद् , यथा
'देवागमनभोयानचामरादिविभूतयः ।
मायाविष्वपि दृष्यन्ते नातस्त्वमसि नो महान् ॥ अथ यथाऽनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया शोध्यमानस्य निर्मलत्वम् , एवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात् किं न सम्भवेदिति मतिः? तदपि न-न ह्यभ्यासमात्रसाम्ये शुद्धरपि तदेव तादवस्थ्यम् । यदुक्तम्
'गरुत्मच्छाखामृगयोलचनाभ्याससम्भवे ।
समानेऽपि समानत्वं लङ्घनस्य न विद्यते ॥ न च सुतरां चरणशक्तिमानपि पङ्गुरखर्वपर्वतशिखामधिरोद क्षमः। उक्तञ्च
'दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति ।
न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि । अथ मा भवतु मानुषस्य सर्वज्ञत्वं, ब्रह्मविष्णुमहेश्वरादीनामस्तु ते हि देवाः, सम्भवत्यपि तेष्वतिशायिसम्पद् । यदाह कुमारिल:
'अथापि वेदहेतुत्वाद् ब्रह्मविष्णुमहेश्वराः।
कामं भवन्तु सर्वज्ञाः सार्वश्यं मानुषस्य किम् ॥ एतदपि न रागद्वेषमूलनिग्रहानुग्रहग्रस्तानां सम्भाव्योन्मेषमिति, नच प्रत्यक्षं तत्साधक-'संबद्धं वर्तमानंच गृह्यते चक्षुरादिने ति वचनाद्, न चानुमानं-प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः, न चागमः-सर्वज्ञस्यासिद्धत्वेन तस्य विवादास्पदत्वाद्, न चोपमानं-तदभावादेव, अर्थापत्तिरपि न-सर्वज्ञसाधकस्यान्यथाऽनुपपन्नलिङ्गस्यादर्शनाद्, यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम्