________________
सटीके षड्दर्शनसमुच्चये यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् ।
आस्ते न वीरधीरस्य भङ्गः सङ्गरकेलिषु ॥ एवं वादिप्रतिवादिनो:
समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः। का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः ॥ उपपादयितुं तैस्तैर्मतैराशङ्कनीययोः ।
अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः॥ इत्यादिप्रलयकालानिलक्षुभितचरमसलिलराशिकल्लोलमालानुकारिणः परब्रह्माद्वैतसाधकहेतूपन्यासाः प्रोच्छलन्तश्चतुरचमत्कार जनयन्तः क पर्यवस्यन्ति, तास्तु युक्तयः सूत्रकृतानुल्लिखितत्वाद् ग्रन्थविस्तरभयाच्च नेह प्रपञ्च्यन्तेऽभियुक्तैस्तु खण्डनमहातकादअसेयाः। . पूर्वमीमांसावादिनश्च द्विधा-प्राभाकरा भाट्टाश्च, क्रमेण पञ्चषट्रमाणप्ररूपकाः, अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमिनीयानुद्दिष्टवान् ।
ते पुनजैमिनीयाः, प्राहुः-कथयन्ति, कथमित्याह-सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचो वचनं मानं प्रमाणं भवेत् , सर्वज्ञादिविशेषण इति । सर्वज्ञादिना गुणेन विशेष्य इति, आदिशब्दाद्विभुत्वनित्यत्वचिदात्मकत्वादिविशिष्टः कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेद् , मानुषतनुत्वाविशेषेण विप्रलम्भकत्वाद् दुष्टपुरुषवत् , सर्वज्ञादिगुणविशिष्टपुरुषाद्यभाव इत्यर्थः ।
अथ किङ्करायमाणसुरासुरसेव्यमानताऽऽद्युपलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभुत्वान्यथानुपपत्तेश्वास्ति कश्चित् पुरुषविशेषः सर्वज्ञ इति चेद् ?