________________
जैमिनीयमतम् । स्यासाधारणं कारणं समवायः, यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते, यथा छिदिः क्रिया छेनेति, अयुतसिद्धानामिति । परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति, परस्परवैधयं तु विविक्तैरभ्यूह्य, षण्णामपि पदार्थानां स्वरूपकथनपात्राधिकृतत्वाद् ग्रन्थस्य नेह प्रतन्यत इति ॥६६॥ प्रमाणव्यक्तिमाहप्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः॥ ६७ ॥
यद्यप्यौलूक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणानि; तथाऽपि श्रीधरमतापेक्षयात्रोभे एवं निगदिते, अमीषां वैशेषिकाणां, प्रमाणं द्विधा द्विप्रकारम् , चः पुनरर्थे, कथमित्याह प्रत्यक्षभेकं प्रमाणं, तथेति द्वितीयभेदपरामर्श लैङ्गिकमनुमानम् , उपसंहरनाह-एवमिति । एवमिति प्रकारसूचनं, यद्यपि प्रमातृफलाद्यपेक्षया बहु वक्तव्यं, तथाऽप्येवममुना प्रकारेण वैशेषिकमतस्य संक्षेपः कथितः परिकीर्तित इति ॥ ६७॥ षष्ठं दर्शनमाह
जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥६८||
जैमिनिमुनेरमी इति जैमिनीयाः, पुत्रपौत्राद्यर्थे तद्धित इयनत्ययः, जैमिनिशिष्याश्चैक उत्तरमीम सावादिनः एके पूर्वमीमांसावादिनः, तत्रोत्तरमीम सावादिनो वेदान्तिनस्ते हि केवल ब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेटयन्तोऽनिर्वाच्यतत्त्वे व्यवतिष्ठन्ते । यदाहुः
'अन्तर्भावितसत्वं चेत्कारणं तदसत्ततः ।
नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः॥ ८००