________________
५६
सटीके षड्दर्शनसमुच्चये
त्वमेव, एवं सत्ताsपि वैशेषिकाणां ह्यद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वा द्रव्यं तत्राद्रव्यं द्रव्यमाकाशं कालो दिगात्मानः परमाणवः, अनेकद्रव्यं तु व्यणुकादिस्कन्धाः, एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती सत्तेति द्रव्यलक्षणविलक्षणत्त्वान्न द्रव्यम् ।
एवं न गुणः सत्ता गुणेष्वभावाद् गुणत्ववत्, यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्त्तेत निर्गुणत्वाद् गुणानां वर्त्तते च गुणेषु सत्ता 'सन् गुण' इति प्रतीतेः तथा न सत्ता कर्म कर्मसु भावात् कर्मत्ववत्, यदि च सत्ता कर्म स्यान्न तर्हि कर्मसु वर्त्तेत, निष्कर्मत्वात्कर्मणां वर्त्तते च कर्मसु भावः, 'सत्कर्मेति प्रतीतेः, तस्मात्पदार्थान्तरं सत्ता |
"
अथ विशेषपदार्थमाहार्याऽर्द्धन – विशेषस्त्विति । निश्चयतो नित्यद्रव्यवृत्तिरन्यो विनिर्दिष्टः कथितः, आचार्येणेति ज्ञेयम्, कथमित्याह - अन्त्यो विशेपो नित्यद्रव्यवृत्तिरिति तथा हि-नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिहेतवस्ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम्, तथा च प्रशस्तकारः - अन्तेषु भवा अन्त्याः, स्वाथयविशेषकत्वाद्विशेषाः, विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्त्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, तथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिक्रियाऽवयवोपचयापचयविशेषसंयोगनिमित्तासम्भवाद्, येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकदृष्टे च परमाणौ स एवायमिति च प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषा इति, अमी च विशेषा एव, न तु द्रव्यत्वादिवत्सामान्यविशषोभयरूपा व्यावृत्तेरेव हेतुत्वादित्यर्थः ॥ ६५ ॥ समवायपदार्थव्यक्तिलक्षणमाह
य इहात सिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ॥ ६६ ॥ इह प्रस्तुतमते, अयुत सिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुयः सम्बन्धः स समवायः, यथेह तन्तुषु पट इत्यादि — प्रत्यय -