________________
जैनमतम् । एवं च यदाहुः-'इन्द्रियार्थसनिकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्,' तथा 'सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमित्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्रादुर्भावस्य प्रमाणवाधितत्वादत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात्, तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसन्निधानात्साक्षादर्थग्रहणपरिणामरूपतया निर्धतते, तथा चोत्पन्नजन्मरूपादिविशेषणं न संभवेद्, अथैवंविधार्थभूचकमेवैतदित्याचक्षीथास्तथा सत्यविगानमेवेत्यास्तां तावत् ।
अधुना परोक्षलक्षणं दर्शयति—इतरदित्यादि, अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानं प्रत्यक्षमुक्तम् , तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् , तदपि स्वसंवेदनापेक्षतया प्रत्यक्षमेव, बहिरापेक्षया तु परोक्षव्यपदेशमश्नुत इति दर्शयन्नाह-ग्रहणेक्षयेति। इह ग्रहणं नक्रमादहिः प्रवर्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यात्तस्येक्षापेक्षा या बहिःप्रवृत्तिपालोचनयेति यावत्, तदयमों यद्यपि स्वयं प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यत इत्यर्थः॥५६॥ पूर्वोक्तमेव वस्तुतत्वमनन्तधर्मात्मकतया द्रढयनाह
येनोत्पादव्ययध्रौव्ययुक्तं यत्सत्तदिष्यते। अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः॥ ५७ ॥
येन कारणेन यदुत्पादव्ययधौव्ययुक्तं तत्सत्सत्त्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः, प्रत्यक्षपरोक्षप्रमाणविषयः, उक्तं कथितमिति सम्बन्धः, उत्पादश्च व्ययश्च ध्रौव्यञ्च, उत्पादव्ययप्रौव्याणि तेषां मेलस्तदेव सत्त्वमिति ज्ञानम् , इष्यते केवलज्ञानिभिरभिलष्यत इति, वस्तुतत्वं चोत्पादव्ययधोव्यात्मकम् , तथा हिउर्वीपर्वततर्वादिकं सर्वं वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा परिस्फुटमन्वयादर्शनात् , लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम्, प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वाद्, न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात् ।