SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सटीके षड्दर्शनसमुच्चये कर्तृत्वं भोक्तृत्वं प्रदेशाष्टकनिश्चलताऽमूर्तत्वमसङ्घयातप्रदेशात्मकता जीवत्वमित्यादयः सहभाविनो धर्माः, हर्षविपादशोकसुखदुःखदेवनारकतिर्यनरत्वादयस्तु क्रमभाविनः, धर्मास्तिकायादिष्वप्यसङ्खयेयप्रदेशात्मकत्वं गत्याधुपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः, घटे पुनरामत्वं पाकजरूपादिमचं पृथुतुनोदरकम्बुग्रीवत्वं जलादिधारणहरणसामर्थ्य मत्यादिज्ञानविषयत्वं नवत्वं पुराणत्वमित्यादयः। एवं सर्वपदार्थेषु नानानयमताभिज्ञेन शाब्दानार्थांश्च पर्यायान् प्रतीत्य वाच्यशब्देष्यप्युदात्तानुदात्तस्वरितविवृत संवृतघोषनादाघोषाल्पप्राणमहाप्राणताऽऽदयः तत्तदर्थप्रत्यायनशक्त्यादयश्वावसेयाः। अस्य हेतोरनेकान्तप्रचण्डमुद्गराघातदलितशक्तित्वेनासिद्धवि. रुद्धानेकान्तिकत्वादीनां कण्टकानामनवकाश एवेत्येवंविधपर्यायात्यन्तसुभगं वस्तु जिनशासने प्रमाणविषय इत्यर्थः ॥ ५५ ॥ लक्ष्यनिर्देशं कृत्वा लक्षणमाह अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज् ज्ञेयं पराक्षं ग्रहणेक्षया ॥५६॥ तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयाऽर्थस्य ग्राहक ज्ञानमीदृशमिति लक्षणनिर्देशः, परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया साक्षात्कृततयेति यावद्, अर्थ्यतइत्यर्थो गम्यत इति हृदयम्, अयंत इति वाऽर्थो दाहपाकाद्यक्रियार्थिभिरभिलण्यत इति, तस्य ग्राहकं व्यवसायात्मकतया परिच्छेदकं यज् ज्ञानं तदीदृशमिति; ईडगेव प्रत्यक्षमिति संटङ्कः, अपरोक्षतयेत्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति, तस्यासाक्षात्कारितयाऽर्थग्रहणरूपत्वादिति, ईदृशमिति । अमुना तु पूर्वोक्तन्यायात्सावधारणत्वेन विशेषणकदम्बसचिवलक्षणज्ञानोपदर्शनात्परपरिकल्पितस्य युक्तरयं प्रत्यक्षतां प्रतिक्षिपति ।
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy